________________
(४)
ષોડશક પ્રકરણ - ૧ च स्वरुचिभेद एव हेतुः ॥ २ ॥
बालो ह्यसदारम्भो, मध्यमबुद्धिस्तु मध्यमाचारः । . ज्ञेय इह तत्त्वमार्गे, बुधस्तु मार्गानुसारी यः ॥३॥
: विवरणम् : इदानीं पूर्वोक्तानां बालादीनामेव लक्षणमाह-बालो हीत्यादि ।
बालो हि पूर्वोक्त: असन्-असुन्दरः आरम्भोऽस्येत्यसदारम्भः, अविद्यमानं वा यदागमे व्यवच्छिन्नं तदारभत इत्यसदारम्भः, न सदा = न सर्वदा स्वशक्तिकालाद्यपेक्ष आरम्भोऽस्येति वा । मध्यमबुद्धिस्तु पूर्वोक्तो मध्यमाचारः, आगमैदम्पर्यविकलत्वात् प्रावचनिक-कार्या-प्रवृत्तेः, ज्ञेय इह-प्रक्रमे तत्त्वमार्गे परमार्थमार्गे प्रवचनोन्नतिनिमित्ते, बुधस्तूक्तलक्षण एव मार्गानुसारी ज्ञानादित्रयानुसारी स्वपरयोस्तवृद्धिहेतुत्वेन, य: स विज्ञेय इति ॥ ३ ॥
: योगदीपिका : आचारद्वारैः तन्निरूपणमाह - बालो हीत्यादि ।
बालो हि निश्चितं असदारम्भो निषिद्धकार्यकारी । मध्यमबुद्धिस्तु गुरु-लाघवज्ञान-साध्य-कार्यानाचरण-सूत्र-दृष्ट-मात्र-कार्याचरणाभ्यां मध्यमाचारः ज्ञेय इह प्रक्रमे तत्त्वमार्गे-मोक्षाध्वनि बुधस्तु स एव यो मार्गानुसारी - ज्ञानादित्रयानुसारी ॥ ३ ॥
बाह्यं लिङ्गमसारं, तत्प्रतिबद्धा न धर्मनिष्पत्तिः । धारयति कार्यवशतो, यस्माच्च विडम्बकोऽप्येतत्॥ ४ ॥
: विवरणम् : कथं पुनर्बाह्यलिङ्गप्राधान्यदर्शिनो बालत्वमित्याह-बाह्यमित्यादि ।
बाह्यं - बहिर्वति दृश्यं लिङ्गमाकारो वेषस्तदसारं, यतः तत्प्रतिबद्धातदविनाभाविनी न धर्मनिष्पत्तिः - न धर्मसंसिद्धिर्विदुषां मता । धारयति कार्यवशतः कार्याङ्गीकरणेन स्वाभिप्रेतफलसिद्धये यस्माच्च विडम्बकोऽप्येतद् धर्मनिष्पत्त्यभावविवक्षया यस्माच्चे ति हेत्वन्तरसूचनम् । एको हेतुर्बाह्यलिङ्गाद्धर्मनिष्पत्तेरभावो, द्वितीयस्तु कुतश्चिन्निमित्ता-द्विडम्बकस्यापि तद्धारणं,
છતાં, બાહ્ય દેખાવને – બાહ્ય વેષને મહત્ત્વ આપી, બાહ્ય દેખાવમાં ધર્મ માની લઇ, ધર્મની પરીક્ષા કરનારા હોય છે પણ કેવળ બાહ્યવેશ અસાર છે. ધર્મસિદ્ધિનો આધાર કેવળ બાહ્યવેશ ઉપર નથી. કારણકે, પોતાના કાર્યની સિદ્ધિ માટે વેષવિડંબક આત્માઓ પણ બાહ્યવેષ ધારણ री. छ.. २-3-४.