________________
3
ષોડશક પ્રકરણ - ૧ तत्रादाविदमार्यासूत्रं प्रणिपत्येत्यादि ।
प्रणिपत्य - नमस्कृत्य जिनं -जितरागादिदोषं वीरं-वर्द्धमानस्वामिनं सद्धर्मपरीक्षको - बालादिभेदेन त्रिविधस्तदादयो ये भावास्तेषां, लिङ्गादिभेदत:लिङ्गादिभेदमाश्रित्य किञ्चिदल्पं स्वरूपमिति शेषः । समासेन-मितशब्देन वक्ष्येअभिधास्यामि ॥ १ ॥
बालः पश्यति लिङ्ग, मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्त्वं तु बुधः, परीक्षते सर्वयत्नेन ॥ २ ॥
: विवरणम् : सद्धर्मपरीक्षकस्य त्रिविधस्य व्यापारमुपदर्शयति - बाल इत्यादि ।
बालः- विशिष्टविवेकविकलो, लिङ्ग-वेषमाकारं बाह्यं पश्यति प्राधान्येन, धर्मार्थिनोऽपि तस्य तत्रैव भूयसा रुचिप्रवृत्तेः । मध्यमबुद्धिः-मध्यमविवेकसम्पन्नो विचारयति - मीमांसते वृत्तं - वक्ष्यमाणस्वरूपं प्राधान्येन समाश्रयति तत्रैवाभिलाषाद्, आगमतत्त्वं तु-आगम-परमार्थमैदम्पर्यरूपं बुधः- विशिष्टविवेकसम्पन्नः परीक्षतेसमीचीनमवलोकयति सर्वयत्नेन-सर्वादरेण, धर्माधर्मव्यवस्थाया आगमनिबन्धनत्वाद्, यत उक्तं -
"धर्माधर्मव्यवस्थायाः शास्त्रमेव नियामकम् । तदुक्तासेवनाद् धर्मस्त्वधर्मस्तद्विपर्ययात् ॥१॥" इति ॥२॥
: योगदीपिका : सद्धर्मपरीक्षकस्य बालादिभेदत्रयं व्यापारद्वारा निरूपयन्नाह-बाल इत्यादि ।
बालो-विवेकविकलो धर्मेच्छुरपि, लिङ्गं-बाह्यं वेषं, पश्यति प्राधान्येन । मध्यमबुद्धिः-मध्यमविवेकसम्पन्नो, वृत्तम्-आचारं विचारयति -यद्ययमाचारवान् स्यात्तदा वन्द्यः स्यादिति वितर्कारूढं करोति । बुधो-विशिष्टविवेकसम्पन्नस्तु सर्वयत्नेन सर्वादरेण आगमतत्त्वं - सिद्धान्तपरमार्थं परीक्षते - पुरस्कृत्याद्रियते । बालादीनां बाह्यदृष्ट्यादौ
શ્લોકાર્ધ : બાળજીવ બાહ્યવેશને જુએ છે. મધ્યમ બુદ્ધિજીવ આચારને જુએ છે. બુધજીવ સર્વપ્રયત્નપૂર્વક આગમની તત્વની પરીક્ષા કરે છે. પ્રથમ ષોડશકમાં ધર્મના પરીક્ષક જીવો ત્રણ પ્રકારના કહ્યા છે. (૧) બાળ (૨) મધ્યમ અને (3) बुध. अम -
[૧] બાળજીવો : બાહ્યવેશ જોનારા, વિશિષ્ટ વિવેકથી રહિત. આગમમાં ન કહ્યા હોય એવા અસદ્ આરંભોને, અસુંદર પ્રવૃત્તિને આચરનારા હોય છે. એ પ્રવૃત્તિમાં પોતાની શક્તિનો કે કાળ વગેરેનો પણ વિચાર તેઓ કરતા નથી ! આ જીવો ધર્મના અર્થી હોવા