Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra +++******+0 www.kobatirth.org व्यवस्थापितसुविहितजनगृहिसदन निवासः प्रमोदितसंविग्नमुनिजनमनः कुमुदखण्डः प्रवचन महाप्रासादशिखरोन्नत कनक केतुदण्डः सतर्कागमादिसमस्त विद्यावदातबोधरञ्जितसकलको विदवरः शिवपथप्रस्थित संविग्नमुनिजनाग्रेसरः सर्वप्रकारपरित्यक्तभूरिः श्रीमजिनेश्वरसूरिव्यप्राणिगणोपचिकीर्षया निखिलशाक्य भौतादिपाखण्डिमण्डलाभिमतकुदेव कुगुरुकुधर्ममार्गखण्डनं प्रमाणोपपन्नसर्वज्ञसद्गुरु सद्धर्ममार्गस्वरूपप्रतिपादन मण्डनं पूर्वयुगप्रवरागमविरचितातिगम्भीरार्थगाथायुगलक विवरणरूपमिदं षट्स्थानकाख्यं श्रावकवक्तव्यतापरनामकं प्रकरणं चकार । तत्र चादावेव तावदेतत्प्रकरण महापुरप्रवेशद्वारभूतं गाथायुगलकमुपन्यस्यति स्म - कयवयकम्मयभावो, सीलत्तं चैव तह य गुणवैत्तं । रिउमइववहरणं चिय, गुरुसुस्सूसा य बोद्धव्वा १ पवयणकोर्सेल्लं पुण, छट्ठं ठाणं तु होइ नायव्वं । छट्टा गुणेहिं जुओ, उक्कोसो सावओ होइ २ अस्य व्याख्या - व्रतानि - नियमाः, तानि चात्र स्थूलप्राणातिपातविरमणादीनि तान्येव कर्म-परिकर्म पूर्वसेवा इत्यर्थः । तत्रार्थादेव यतिधर्मस्य ! अथवा व्रतानि - सर्वथा प्राणातिपातविरमणादीनि तेषां कर्म - परिशीलनमणुव्रतादिपालनरूपपूर्वसेवालक्षणम् । ततः कृतं विहितं व्रतपरिकर्म- महाव्रतप्रतिपत्तिहेतूनामभ्यासो येन स तथोक्तः, स एव कृतव्रतकर्मकः, तस्य भावस्तस्वम् । शब्दस्य हि प्रवृत्तिनिमित्तं भावो यथा वृक्षस्य वृक्षत्वम् । तथा च येन निमित्तेनाव्रतप्रतिपश्यादिना श्राद्धः कृतव्रतकर्माऽभिधीयते स कृतव्रतकर्मकभावः । अथवा व्रतानि श्रणुव्रतादीनि तेषां परिशीलनं मार्गश्रवण ज्ञानादिरूपम् । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir +703+******+ ***40****

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115