Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
बदस्थानक प्रकरणम्
द्वितीय स्थानम्
॥ २०॥
सत्यं, तदपि ' अबाधकं' परिणामपथ्यत्वात्स्वपरयोर्दुःखानुत्पादकमबाधादं वा । इस्वत्वं प्राकृतत्वात् । पाठान्तरेण त्वचाधितं पूर्वापराव्याहतार्थम्, अत एवेह परत्र हितकारि, एतजन्मनि जन्मान्तरे चानुकूलसंपत्तिहेतुः। ईदृशं 'वचन' वाक्यं 'भाषते' ब्रूते, उत्सर्गतः शीलवान् श्राद्ध इति प्रक्रमः ।' कार्ये' सद्धर्मानुगतप्रयोजने । अनेन निष्प्रयोजनमीडशस्यापि वचनस्य निषेधमाह-तथा — विकृतं ' वक्ष्यमाणलवणं वचनमेव 'परिहरति ' वर्जयति ‘यत्नेन' आदरेण, तदपरिहारे मधुरादिभापित्वाऽनिर्वाहात् । इति गाथार्थः ॥ ६ ॥
अथ सान्वयं विकृतमेवाह - विकियं विकारवन्तं, इहपरलोयाण दोससंजणयं । इहलोयदोसहेऊ, रे मारियदासविसलत्ति ॥७॥
व्याख्या-'विकृतं' विरूपमिति लक्ष्य 'विकारवत्' इति लक्षणम् । तत्र विकारश्चेतसोऽन्यथात्वं, मदमदनमत्सरापुपप्लुतत्वम् । तद्युक्तं यन्मनस्तद्विकारवत् । तन्निमित्तकं वचनमप्यभेदोपचाराद्विकारवत् । मदाद्यभावे तादृग्वचनाभावादिति भावः । तदुक्तम्-" मयणाउरोति मयविं-भलुति मच्छरपउट्ठचितुत्ति ।। जं वयणं वयमाणो । जणेण नजिअ तं वर्ज
॥१॥" अथ कार्यमस्याह-इहपरलोकयोर्दोषसंजनकं, तत्रेहलोकदोषा भात्मलघुताजनविरोधबन्धनधनप्राणनाशादयः, वापरलोकदोषाः कुगतिपातादयस्तेषामुत्पादकं उभयलोकबाधकामेत्यर्थः । तत्रापीहलोकदोषसंजनक एतजन्मनि क्षणोत्पादक
म् । किम् ? इत्याह-रे मारित दास वृषल इति । परलोकबाधकं त्वग्रे वक्ष्यत इत्यभिप्रायः । तत्र 'रे' इति निन्दार्थे संबो- 1
॥२०॥
For Private and Personal Use Only

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115