Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बन्धेन सुवर्णादिग्रहणकग्रहणेन । 'अथवा' इति पक्षान्तरसंसूचनार्थः, रुक्केणं ति' साक्षात्सुवर्यादिग्रहणेनैव, नान्यथा प्रकारान्तरेण, ह्यद्धारकादिना दीयमानस्याऽवश्यं मूलचतिहेतुत्वेन अस्यैव प्रकारद्वयस्य साधीयस्त्वादिति भावः । इत्यर्थोपाय इति । एवं कामोपायोऽपि स्त्रीषु साम-दान-माधुर्यादिप्रवृत्तिः। धर्मोपाय एव तु निःशेषोऽपि पारम्पर्येण मोक्षोपाय एव ज्ञेय इति । न चाऽनयोरर्थ-कामोपाययोर्वक्ष्यमाणार्थ-कामकौशलाभ्यामभेदः, अर्थकौशलं हि भाण्डस्यैव प्राधान्या| प्राधान्यपरिज्ञाननपुर्ण तत्पूर्वकश्च संग्रह इति । तथाविधस्यैव माण्डादेग्रहणाऽग्रहणविधिः सत्यत्वेनैव च व्यवहर्तव्यमिति
तु अर्थोपाय इति । तथा कामकौशलं स्त्रीमात्रस्येगिताकारादिना शुभाशुभभावनिश्चयादिकं, तनिश्चये तत्संदेहे वा स्वरचाचमक्रियास्वस्खलितप्रवृत्तिरप्युपचारात्तत्कौशलम् । स्वदारा हि विराधिताः कदाचिद् वधाद्यनर्थकरणेऽपि प्रवर्तेरनितिः | स्वदाराणामेव सर्वप्रयत्नेन चित्ताराधनप्रवृत्तिरेव तु कामोपाय इति । एवं सकलपुरुषार्थोपायानवगम्य तथैव प्रवर्तमानस्योपायाक्सिंवादः । इति गाथार्थः । १५ ॥
अथ भावाविसंवादमाहपिइ-माइ-भइणि-भाउ य, भावं संवयइजेण तं कुज्जा। अहवा वि परूवितो, जहट्टियं पन्नविज्जा उ॥
व्याख्या-'पितृ-मातृ-भगिनी-भ्रातृणां' प्रतीताना, 'भावः' प्रियाप्रियादिषु शुभाशुभादिषु परिणाम:, स संवदति, तद्विरुद्धभावान्तरानुत्पादेन संघटते येन केनापि कृतेन सता प्रियादिविषयदानादानादिना तद्दानादिकं 'कुर्याद् '
For Private and Personal Use Only

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115