Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदस्थानक प्रकरणाम् ॥४३॥
स्थानम्
अन्नम्मि उवकंते, पसंगओ जत्थ साहए अन्नं । तं खलु कडवखवयणं न होइ तं पत्थुयमवस्सं ॥६॥
व्याख्या-'अन्यस्मिन् ' कस्मिंश्चिदर्थे ' उपक्रान्ते ' प्रारब्धे प्रतिपादयितुमिति शेषः । 'प्रसङ्ग(ता) इति, तस्यैवार्थस्य कथनानुषङ्गेण यत्र स्थाने ' साधयति' प्रतिपादयति, 'अन्य' प्रक्रान्तादर्थादर्थान्तरप्रतिपादनम । 'खलु' निश्चयेन, ' कटाक्षवचनमिति' कटाक्षोऽपाङ्गनिरीक्षणं, तदिव यदभिधानं तत्कटाचवचनम् । यथाहि संमुखीनं पदार्थमलोकयन्नेव कामुकादिः कमनीयकामिनीप्रभृतिकं तिर्य गवस्थितमपाङ्गेन निरीचते, एवं प्रस्तुतमभिदधानस्यापि तत्प्रसङ्गेनाऽप्रस्तुतस्य यदीमधानं तत् कटाक्षवचनम् । यथौधनियुक्तौ उपकरणद्वारे-"अज्झत्थविसोहीए, उवगरणं बाहिरं परिहरंतो । अपरिग्गहो ति मणिभो, जिणेहिं तिलोकदंसीहिं" ॥१॥ इत्यादिना मूर्छादिरहितः कन्पादिकमुपभुञ्जानोऽपि अपरिग्रह इति वचनं, तथाविधोपकरणभोगं मोक्षाङ्गतया समर्थयदेव दिगम्बरमतमपाकरोति । तच्चाऽपाकरणमप्रस्तुतमेव, केवलं प्रस्तुतार्थाऽबाधकतया तत्प्रसङ्गमात्रेणोपात्तमित्याह-'न भवति तत्प्रस्तुतमवश्यम्' इति सुगमम् । अस्य तु पुनरुक्तत्वं नाशङ्कनीयम् , उपदेशत्वाद् , व्यतिरेकद्वारेण विनेयानां सुदृढप्रतिपत्तिनिमित्तत्वाद्वा । इति गाथार्थः ॥९॥
तथापडिवजह जिणदेवं, विरओ देसेण सव्वओ वावि । एयं सहावभणियं, जाणइ सो सुत्तकोसल्ला ॥१०॥ __ व्याख्या-भो भव्याः ! 'प्रतिपद्यध्वम् ' आश्रयध्वं मोक्षाङ्गतया 'जिनदेवं ' वीतरागदेवताम्, तदाश्रयणस्यैव
For Private and Personal Use Only

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115