Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 100
________________ Shri Mahavir Jain Aradhana Kendra K********++******+****+10 www.kobatirth.org परंपरा मुक्तिहेतुत्वात् । तथा ' विरतिं ' निवृत्तिं च प्राणिवधादेरिति शेषः, 'देशेन ' इत्येकदेशतः स्थूलप्राण्यादे द्विविधत्रिविधादितश्च । ' सर्वतोऽपि वा ' सर्वप्रकारेण स्थूलसूक्ष्म त्रिविधत्रिविधरूपेण, वाशन्दो द्वयोरपि निवृत्योरसाचात्साचाच मनिदानयोः शक्तिश्रद्धानुसारेणाश्रयणीयत्वविकल्पप्रतिपादनार्थः । ' एतद् ' एवंरूपं वचनं 'स्वभावभणितं ' नैसर्गिकोपदेशरूपं, न तु भयादिसूत्रवत् कारणान्तरजम् इति ' जानाति ' बुध्यते सोऽर्थकौशलवान् श्रावकः अर्थकौशलादिति । अत्रार्थस्य सूत्राभिधेयत्वादुपचारेण सूत्रशब्देनार्थोपादानं द्रष्टव्यं ततोऽर्थनैपुणात् । इति गाथार्थः ॥ १० ॥ उक्तमर्थकौशलम् । अथाऽर्थ विशेषत्वादुत्सर्गापवादयोस्तत्स्वरूप।दाहरण रूपफलप्रतिपादनपुरस्सरं तत्कौशलं गाथा - त्रयेणाह—— सामन्नविही भणिओ, उस्सग्गो तव्विसेसिओ इयरो । पाणिवहाइनिवित्ती, तिविहं तिविहेण जाजीवं ॥ ११ पुढवाइस आसेवा, उपपन्ने कारणम्मि जयणाए । मिगर हियरस द्वियस्स, अववाओ होइ नायव्वो ॥१२॥ सव्वन्नुप्पामन्ना, दुन्नि वि एए समासओ मुक्खं । मिस्सं पत्ता सेवण, कोसल्लं इत्थ नायव्वं ॥ १३ ॥ व्याख्या - ' सामान्यः ' सर्वसाध्वादिसाधारणो ' विधिः ' अनुष्टानं ' मणितः प्रतिपादितो जिनैः ' उत्सर्ग उत्कृष्टः समाचारः । तस्मादेवोत्सर्गाद् ' विशेषितो ' देश - कालादिकारणैर्भेदितः, अथवा स एव तैर्विशेषितः । किमि - त्याह-' इतरो ' अपवाद: सामान्यविधिबाधारूपो भणितः । उत्सर्गापवादयोस्तत्र तत्र साहचर्याभिधानोपलम्भात् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir K*** *******

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115