Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 109
________________ Shri Mahavir Jain Aradhana Kendra पदस्थान क प्रकरणम् ॥ ४८ ॥ C03++**««+699*++++++++ www.kobatirth.org 1 ततः स्वतः सकाशात् श्रुतादिभिरधिकानां विशिष्टशास्त्राद्यम्पासवतां वृद्धानां अनिन्दितप्रसिद्धजातीनां च जनानां लोकानां सततं सर्वदा, समचमसमक्षं चेति पूर्ववत् । 4 सत एव विद्यमानानेव 'गुणान् शास्त्रज्ञत्व – परिणतमतित्व – सदाचारखश्वादिसद्भूतधर्मान् प्रशंसति श्लाघते । तुः ' अवधारणे, योजितश्च । — अपराधं ' क्वचित्कथंचित् प्रमादाचरितादिदोषं पुनस्तेषामेव दुर्जनैरुद्भाव्यमानमपि ' उत्फुंसति अपनयति ' यत्नेन ' आदरेण तत्प्रशंसादेरत्यन्तमौचित्येन लोकाचारप्रवणत्वाऽभिव्यञ्जकत्वात् । तदुक्तम् — “अनुहरतः खलसुजना, - वग्रिमपाश्चात्यभागयोः सूच्याः । एकः कुरुते छिद्रं, गुणवानन्यस्तु पिदधाति " ॥ १ ॥ इति । तदेवं शिष्टमैत्र्यादेर्हितहेतुत्वज्ञानात् तत्रैव च प्रवर्तनाद् भवति लोक - कौशलवान् श्राद्धः । इति गाथार्थः ॥ २२ ॥ अथ सर्वकौशल संपाद्यत्वेन प्राधान्याद् भावस्य तत्कौशलमाह भावे कोसलं पुण, जाणइ भावं स बज्झचिट्ठाहिं । अहिणवधम्माईणं, थिरत्तणं कुणइ नाऊणं ॥ २३ ॥ व्याख्या - लोके तावदुक्तं कौशलं, ' भावे ' पुनरभिप्रायविशेषे एतत्कौशलमिति योगः । यद् ' जानाति ' वेत्ति 4 भावम् ' अभिप्रायं 'स' इति श्राद्ध:, ' बाह्यचेष्टाभिः ' बहिरुपलभ्यमानवचन - कायादिव्यापारैः । तदुक्तम्- -" श्राकारैरिङ्गितैर्गत्या, चेष्टया भाषणेन च । नेत्र वक्त्रविकारैश्च, लक्ष्यतेऽन्तर्गतं मनः " ॥ १ ॥ ' अभिनवधर्माणः ' तत्कालाम्युपगत सम्यक्त्वादिभावाः, ' तदादीनां ' तत्प्रभृतीनाम् श्रादिशब्दात् प्रतिपतितभावादिग्रहः । ततश्च तद्भावं सम्यग् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ***********++***69 षष्ठं स्थानम् ॥ ४८ ॥

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115