Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 111
________________ Shri Mahavir Jain Aradhana Kendra पदस्थानक प्रकरणम् ॥ ४६ ॥ *1*++******+******+* www.kobatirth.org ' करिष्यति' विधास्यति 'ऋणिको ' अधमर्णः, 'खरेण अतिशयेन भोजन - पानादिनिषेधरूपेण ' निरुध्यमानो ' गमनागमनादिप्रतिरोधतोऽवघटनेन नियन्त्रयमाण इति । तदा तम् ' अनुवर्तयति' प्रथममेव तद्दीयमान गवादिमात्रग्रहण - सुकुमारवचनादिना अनुकूलयति न युध्यते तेन सह नैव विवाद- प्रहारादिना प्रत्यवतिष्ठते । अनुवर्तनाभिधानादेव युद्धाभावे लब्धे यत्साक्षाद् युद्धाभावाभिधानं तदस्य युद्धस्याऽत्यन्तं शासनोपघातहेतुत्वेन स्वस्याऽसभ्यतापादकत्वेन च सर्वथाऽध्यकरणीयत्वख्यापनार्थम् । किं कुर्वन् : इत्याह-यन्मया लोभाद्दाक्षिण्यादेर्वा एतस्मै दत्तं ' तावन्मात्रं ' तत्प्रमाणं मदीयं द्रव्यं ' गतमेव ' नष्टमेव, एतस्मादस्य द्रव्यस्य सुदुष्प्राप्यत्वादिति परिभावयन्निति शेषः । यद्यपि गृहिणा (गः) सर्वार्थ संपादकत्वेन वाह्यप्राणभूतत्वेन चाऽत्यन्तप्रियस्याऽर्थस्य एवमेव दुष्करः परिहारः, तथापि नाऽनुपायप्रवृत्तौ कार्यसिद्धिः, न खल्वत्यन्तबुभुचाचामकुचिरपि शुकशावको नालिकेरफलव्यापारितचञ्चुस्तद्भङ्गादन्यदासादयति फलम् । तदिहापि श्रकिञ्चिकरमूर्च्छा मात्र मपहाय अर्थलाभोपाये एव यतितव्यम् । स चायं यदि तदा न ददाति तदा पुनः कालान्तरे याचते, तन्मित्रादिना वा तं संबोधयति । श्रात्मनः स्थानं-सहाय- राजादिसामर्थ्य, तस्य तु तदभावम् द्रव्यसमृद्धिसद्भावं चाऽवगम्य गाढतरमपि निरुणद्धि इत्येवमादिकः । तदुक्तम्- “ पुणरवि पच्छावे तं मग्गह नाऊण नियबलं परमं । तस्स य अप्पत्रलत्तं, गिहे यत्थं वियाणित्ता " ॥ १ ॥ एवं हार्थसिद्धिः, नाऽन्यथा । सर्वत्राप्यधमर्णेऽयं विधिः, विशेषतश्च चीयविभवसाधर्मका । इति गाथार्थः ॥ २५ ॥ अथ लोकव्यवहारसिद्धिप्रयोजनं तदाह For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 本 षष्ठं स्थानम् ॥ ४६ ॥

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115