Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 112
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | अन्नस्स वि परिकुवियं, रायाणं बिन्नबेइ नो तन्नू । संतुट्ठसुप्पसन्नं, भणइ सयं भाणइ परेण ॥ २६ ॥ __व्याख्या-'अन्यस्मै ' स्वकीयामात्यभृत्यायाऽपि, पास्तां स्वविषये इत्यपिशब्दार्थः। 'परिकुपितं ' कुतोऽपि हेतोरतिक्रुद्धं, 'राजानं ' भूपालम् , इङ्गितादिभित्वेिति शेषः, 'नो' नैव 'विज्ञापयति ' स्वप्रयोजनसंपादनाभिमुख्य कोमलवचसाऽपि व्यापारयति ' तज्ज्ञो' विचक्षणो भावकौशलवानित्यर्थः । तर्हि कदा विज्ञापयति ? इत्यत आह- संतुए' नयन-कपोलविकासाद्यभिव्यक्तप्रमोदः, ' सुप्रसन्नश्च' रोषाद्यभावेन सौम्यमूर्तिः, ततश्च सन्तुष्टश्वासौ सुप्रसन्नश्चेति | कर्मधारयः । तं राजनमेवंविधमिङ्गितादिभिरेव ज्ञात्वा · भणति' स्वयमेव विज्ञापयति स्वप्रयोजनं, 'भाणयति वा' विज्ञापयति परेणाऽमात्यादिना । इह च संतुष्टादिपरद्वयोपादानम् अवश्यमेवंविधान कार्यसिद्धिरिति ज्ञापनार्थम्. सर्वेष्वपि चैतेषु कृतव्रतपरिकर्मादिषु दिग्मात्रं संक्षिप्तरुचिसत्वानुग्रहार्थमुपदर्शितमुपलक्षणत्वेन, ततस्तदनुसारेण स्वयमेव सुधीभिस्तत्तत्स्थानानुगुणत्वेन, अन्यदपि तत्तत्परिकर्मादिकं तत्र तत्र निवेशनीयम् । इति गाथार्थः ॥ २६ ॥ यद्राज्यं सार्वभौमं त्रिदिवपतिपदं यच्च यत्तीर्थपत्वं,सत्त्वानां तत्त्वसारैर्निचितमुपचितं शर्म यन्मोक्षलक्ष्म्याः तत्पुष्यच्छद्धिवृद्ध्यानुपमशुभशतोच्छूनबीजोद्गतस्य,श्रद्धासिक्तस्य पाकः प्रवचनकुशलत्वस्य कल्पद्रुमस्या इति युगप्रवरागमश्रीमजिनपतिसूरिशिष्यलेशविरचितायां पटस्थानकवृत्तौ प्रवचनकौशलं नाम षष्ठं स्थानं समाप्तम् । तत्समाप्तौ च समाप्तं षट्स्थानक किरणमपि श्रावकवक्तव्यताऽपरनामकं वृत्तितः । इति शुभमस्तु ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 110 111 112 113 114 115