Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 113
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् षष्ठं स्थानम् ॥५०॥ जिनेश्वरश्चान्द्रकुलावतंसो, दुर्वारवादिद्विपकेसरीन्द्रः । सन्नीतिरत्नाकरमुख्यतर्क,-ग्रन्थ प्रणेता समभून्मुनीशः ॥१॥ संवेगरङ्गशाला, प्रजापतिः कुमुदवनसुधाकिरणः । दोषापचितिदिनेश,-स्ततोऽभवत्सूरिजिनचन्द्रः ॥२॥ चक्रीव नव निधाना, न्याविश्वके सपूण्यवृत्या यः । अङ्गानि स्थानादी,-न्यजन्यसावभय देवगुरुः ॥३॥ जिनवल्लभ-जिनदत्तौ, ततोऽपि सत्यविभावनोत्थायाः । श्रीपुष्पदन्तकीते,-विलोपको सद्गुरू जातौ ॥४॥ तदनु जिनचन्द्रसूरिश्चन्द्र इवानन्दकन्दलनिदानम् । मृाऽपि विबुधमानससुकुमारमृदि जन्योः ॥ ५॥ जिनपतिरितिसूरिः सद्गुणागाढवन्ध,-निविडनिगडितेवात्येति नो संयमश्री। क्वचिदपि पदमात्र सर्वविद्यानवद्य-प्रचयपरिचिताङ्गी यद्वपुष्टः सुपुष्टा ॥ ६ ॥ सकलगुणनिवेशः क्वापि नैवेति वादं, जगत इव विनेतुं धारयत्युग्रधामा । परिमितपरिपन्थिप्रोज्ज्वलत्ख्यातिमूलं, बत गुणनिकुरम्ब सांप्रतं यः शुभात्मा ।। ७॥ तच्छिष्यो जिनपालः पदस्थानकसंज्ञितप्रकरणस्य । वृत्तिं व्यधादमेधा अप्येता स्वपरहितविधये ॥८॥ उत्सूत्रं विवृतं किश्चिद्, यद्यत्र मतिमान्यतः । उत्सार्य तदमात्सय-रायः कार्यविचक्षणैः ॥९॥ मुंग-रस-दिनकरसंख्ये, (१२६२) विक्रमवसुधेशवत्सरेऽतिगते । श्रीमालपुरे चैषा, समर्थिता माघशुक्लार्द्ध ॥१०॥ सिद्धान्तकनकनिकषैः, कारुण्यामृतपयोधिभिरतन्द्रैः। श्रीमज्जिनपतिमूरिभि,-रियं तु संशोधता यत्नात् ११ ग्रन्थाग्रं १४९४ ॥५०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 111 112 113 114 115