Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 108
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गाथार्थः ॥ २० ॥ तथान भणइ अवण्णवायं, रायाईणं समक्खमसमक्खं । परिहरइ विवक्खं, से संतगुणुच्चारणं कुणइ ॥२१॥ व्याख्या-'न भणति 'न भाषते 'अवर्णवादम् ' अप्रशंसावचः, निन्दा न करोतीत्यर्थः । 'राजादीनां' | राजा-मात्य-सामन्त प्रभृतीना, तबिन्दाया अत्यन्तं लोकविरुद्धत्वाद् वधादिहेतुत्वाच्च । समक्षमिति क्रियाविशेषणं, ततः 'समक्षं' प्रत्यक्षं यथा भवति, तेषामेव शृण्वताम् । 'असमर्श' तत्परोक्षेऽपि । तथा 'परिहरति' आलापसंसर्गादिनिषेधेन वर्जयति 'विपचं' प्रतिकूलवर्तिनं निन्दकपातुकादिकं 'से' तस्य राज्ञः, एकवचनं त्वत्र विशेषेण केवलस्यैव राज्ञो विवक्षितत्वात् , तद्विपक्षसंसर्गस्य सर्वथा महाऽनर्थहेतुत्वात् । 'सद्गुणोच्चारणं च' सद्भुतप्रजापालकत्व-प्रतापादिमत्वधर्मोत्कीर्तनं च 'करोति' विधत्ते समक्षमसमक्षं च, अनेन च वाचाटतायाश्चाटुकारितायाश्च निषेधमाह, तयोः शिष्टाचारताभ्रंशत्वात् । इति गाथार्थः ॥ २१ ॥ तथासुय-जम्म-जाइसमहिय,-जणाण सययं समवखमसमक्खं संतगुणे उपसंसइ,अवराहं फुसइ जत्तेणं॥ व्याख्या-' श्रुतं' शास्त्राधिगमः, 'जन्म' उत्पादा, 'जाति:' मातृप्रभवा, उपलक्षणं चैषां कुल-शीलादीनां, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115