Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदस्थानक प्रकरणम्
स्थानम्
॥४७॥
| सामान्येन योषितां मात्रादीनामपि, किं पुनर्वेश्याना 'पुरतो' अग्रतः सदाकालमिति पूर्ववत् । स्त्रियो हि तुच्छताऽतिशयाद् रहस्यं चेतसि धारयितुमसमर्था अवश्यं बहिः प्रकाशयन्ति, तथा चाऽनर्थसन्ततिरेव । तदुक्तम्-" तुच्छासु कामिणीसु, मा सम्भावं कयावि पयडेसि । तं जं फुट्टा तुरियं, कप्पासफलं व परिपक्कं"॥१॥ न चायं स्त्रीप्रसादनाघुपदेशोऽसङ्गतः सावधस्वाद् इति वाच्यम् । शरीररक्षाधारेण धर्मरक्षानिदानत्वात् । यथा चाऽनयोरर्थकामोपायाभ्यां भेदस्तथा प्रागेवोक्तम् । इति गाथार्थः ॥ १९ ॥
अथाऽस्यापि त्रिवर्गस्य लोकाधारत्वाद् लोककौशलमाह-- | लोगे पुण कोसल्लं, करेइ मिति पहाणलोगेण । वच्चइ रायासन्नं, उवयरइ य सयावि सब्भावा ॥२०॥ ___व्याख्या-अर्थ-कामयोरुक्तं कौशलम् । 'लोके ' शिष्टजनसमाचारे पुनरेतत्कौशलं यत् करोति' विधत्ते
मैत्री' सौहार्द 'प्रधानलोकेन ' सदाचारतया सर्वोत्तमजनेन, तन्मैत्र्यस्य सकलकल्याणनिबन्धनत्वात् । तथा 'वजति' तत्प्रसादनार्थ गच्छति 'राजासन' नृपसमीपे, उपलक्षणं चैतन्नृपाभिमताऽमात्यादिसमीपस्य, तत्र गमनमात्रस्यापि ऐहिकानर्थनिवृत्तिहेतुत्वात् । तदुक्तम्-“गन्तव्यं राजकुले, द्रष्टच्या राजपूजिता लोकाः । यद्यपि न भवन्त्यर्था, भवन्त्यनर्थप्रतीकाराः"॥१॥ ' उपचरति च' विनय-प्रियालाप-दानविशेषादिना भावर्जयति च 'सदापि' सर्वदा 'सद्भावात् ' निष्कपटतया, स्वामिनोऽपि शास्त्रे दुष्प्रतीकारत्वश्रवणात् सद्भावत एवोपचारो युज्यते । इति
॥४७॥
For Private and Personal Use Only

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115