Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुहइ मोहियमईभो । धम्मं च सो न याणइ, अहवा बद्धाउनओ नरए" ॥१॥ ततश्च तथोद्धारग्रहणे मूलनाशस्यापि संभवात् । तथा च देवद्रव्यविनाशे शङ्काशादिश्रावकवद् महाऽनर्थभागित्वप्रसङ्गानाङ्गोपरि तदुद्धारग्रहो युक्त इति । तथाऽनेनैव — जातु' कदाचित् से' इति तस्य जिनद्रव्यस्य वा साधारण द्रव्यस्य वा 'पुंमक' परंपरा, तदुपयोगनिदानमवस्त्वन्तरोपयोगरूपं 'लाति' गृहाति, तद्ग्रहणेनापि तदुपभोगं न करोति । इति गाथार्थः ॥ १५ ॥
पुम्भकस्वरूपमाहतहव्वरिणियोयण, विठ्ठीए सँगड-बइल-मणुयाणं । अहवावि खरालम्हि, करेइ तहव्वकयगाणं॥१६॥ ___व्याख्या-'तद्व्यऋणिकेभ्यः' कदाचिद् वृद्ध्यादिनिमित्तवितीर्णजिनादिद्रव्यऋणिकेभ्यः सकाशात् केनापि मुग्धलुब्धश्रावकेण ' याचनं ' प्रार्थनं गृहीत्वापि, तदुपयोगविधानमिति यावत् , विष्ट्या स्वद्रव्यदानमन्तरेणैवमेव मुधिकया शकटबलीवर्द-मनुजानां प्रतीतानाम् ऋणिकस्यैव संबन्धिनाम् एतत्पुंभकम् । उपलक्षणं चैतत् , अन्यदपि यद्देवद्रव्योपजीविनः सकाशात् तदाक्षिण्येनैव स्वगृहे व्यापारादिकं कार्यते तदपि पुंभकम्, पारम्पर्येण देवादिद्रव्योपभोगरूपत्वात् । अथवेति प्रकारान्तरे, तद्यक्रायकाणां देवादिद्रव्यकलान्तरप्रयोगग्राहिणां सूत्रधारादीनां संबन्धित्वेन 'खरश्लक्ष्णिको 'खरान् मुद्रादिद्रव्यसंपूर्णान् देवादिसंबन्धिनो द्रम्मादीन् प्रात्मना गृहीत्वा स्वकीयान् द्रम्मादीनेव श्लक्ष्णान् द्रव्यादिहीनान् ददाति यस्यां वाणिज्यायां सा खरलक्षिणका, तां'करोति' विधत्ते । एतदप्युपलक्षणम् , तेन यद्देवसंबन्धि किश्चिद्वस्त्वा
For Private and Personal Use Only

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115