Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
चदूस्थानक
प्रकरणम्
11 88 11
****************93403
www.kobatirth.org
प्रक्रमाद्वा इतरशब्देनात्राऽपवादग्रहः । श्रद्यस्यादाहरणमाह - ' प्राणिवधादिम्य आश्रवद्वारेभ्यो ' निवृत्तिः विरतिः, त्रिविधं त्रिविधेन करण-कारणा- अनुमतिभिर्मनो वाक्- कायैः 'यावजीवम् ' आजन्म साधूनामित्युत्सर्गो ज्ञातव्य इति योगः || ११|| अथ द्वितीयस्योदाहरणम् -' पृथिव्यादिषु' लवणादिरूपेषु षट्स्वपि जीवनिकायेषु विषयेषु 'आसेवा' मर्यादया मनाग् निषेवणम्, एषामुपमर्दनमित्यर्थः । ' उत्पन्ने ' संजाते ' सति ' कारणे तदासेवनदेतौ ग्लान्यादावत्यन्तमधिसोढुमशक्ये, न तु यथाकथञ्चित्, तत्रापि 'यतनया ' रचितुं शक्यजीवरक्षालचणया, न तु निःशुकतया प्रसरेण । तथा च यतनास्वरूपमुक्तम् - " जीए पभूययरास - प्पवित्तिविणिवित्तिलक्खणं वत्युं । सिज्झह चिट्ठाए जउ, सा जयखाए विवईमि " || १ || अत्र चाज्ञया आप्तोपदेशतो विपदिति ग्लान्याद्यापदि, मृगा इव मृगा मुग्धा अभिनवदीक्षितादयोऽपरिणत भावाः, तै ' रहितस्य ' वर्जितस्य तदसन्निहितस्येत्यर्थः । तत्रापि ' स्थितस्य ' चारित्रे सम्यगवस्थित - भावस्य सतः साधोर्यत्पृथिव्यादिनिषेवणं तद् अपवादो भवति ' ज्ञातव्यो' बोद्धव्यः, सामान्यविधिबाधारूपत्वात् । तथा च सम्यक्चारित्रिणोऽधिकृत्योक्तम् - " असिवे प्रोमोयरिए, रायपउट्टे भए व गेलने । एमाइकारणेहिं, आहाकम्माह जयणाए " ।। १ ।। ततोऽयमत्र भावः - यो ह्यस्थितोऽपरिणतसाधुसमचं चाऽतिप्रसरेण निष्कारणमेव चाssसेवते, नाऽसौ अपवादवर्ती, किन्तु तदाभाससमाचारः, साध्वाभास एवेति, न तदनुष्ठानमपवाद इति । नन्वस्योत्सर्गबाधारूपत्वात् कथं मोचाङ्गता ?, अस्यैव वा तदङ्गत्वे कथमुत्सर्गस्य ? इत्यत आह-' सर्वज्ञप्रामाण्यात् ' अत्रार्थे सर्वविदोऽवधेयवचनत्वाद् द्वाप्येत उत्सर्गापवाद, नैक एवाऽनयोः किमित्याह - ' मोचः कृत्स्नकर्मचयलक्षणः, कारणे कार्योपचारान्मोचकारणे
"
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
03 +18++******++€*******
षष्ठं
स्थानम्
॥ ४४ ॥

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115