Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 97
________________ Shri Mahavir Jain Aradhana Kendra षट्स्थानक प्रकरणम् ॥ ४२ ॥ +++++ *********++ www.kobatirth.org मावाद् ' वैक्रियत्वात् । अत्र च शरीर - शरीरिणोः कथंचिदमेदाद् वैक्रियत्वाभिधानं दृश्यम् । अथवा 'वैक्रियमावाद् ' वैक्रियशरीरत्वात्तेषां 'न' नैव तन्मांसादिकम् । इति गाथार्थः || ६ || तथा - विसयविभागेणं पुण, सुत्तं किंचि जहा उ आयारे । जुन्नं उवगरणं जह, हेमंताइक्कमे निसरे ॥७॥ व्याख्या— साध्वाद्याचारस्य हि ' विषयो ' गोचरः साध्वादिः, तस्य विभागो ' अवान्तरविशेषः स्थविरकल्पिकादिः । ततश्च किञ्चित्पुनः सूत्रं तथाविधार्थीपदेशलचणं विषयविभागेनेदं स्थितामिति जानाति । तदेव सूत्रकारो दृष्टान्तार्थमाह-' यथैव ' येन प्रकारेण ' आचारे' प्रथमाङ्गे एतदर्थं सूत्रमस्ति यदुत जीर्णं परिशटितप्रायम् उपक्रियतेअनुगृह्यते संयमोऽनेनेति उपकरणम् - पात्र कल्पादिभाण्डम्, यदि चेद्भवेत् कथञ्चित्साधोस्तदा 'हेमन्तातिक्रमे शीतकालापगमे ' निःसृजति ' परिष्ठापयति साधुः, संयमानुपष्टम्भकत्वेन तस्याधिकरणत्वात् । तथा च तत्र प्रथमश्रुतस्कन्धाष्टमाध्ययनचतुर्थोद्देशकेऽभिहितम् " अह पुरा एवं जाणिजा उवाइककंते खलु हेमंते, गिम्हे पडिवने, ग्रहापरिजुन्नाई वत्थाई परिठवेजाइ " । इति गाथार्थः ॥ ७ ॥ एतच्चाऽर्थकौशलवान् विमृश्यैवंविषयविशेषे व्यवस्थितमिति निश्चिनोति । कथमित्याह चोइस उवगरणाई, अवस्समुत्ताई ताव जं तेसिं। विसए निवडइ एयं, जिणकप्पीणं अओ तं तु ॥ ८॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir -*-+-+ →→**• ***•**•* षष्ठं स्थानम् ॥ ४२ ॥

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115