Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 86
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir 'न कुर्याद् ' विदध्यान्नैव । अमुमेवार्थ स्पष्टप्रतिपत्तये व्यतिरेकेणाह-'किं पुनरिति' किन्तु येन पूर्वोदितकलहादिपरि हारलक्षणेन कृत्येन 'स्थिरः' प्रतिपत्तिकालाद् दृढतरो ' भवति' जायते भावस्तत् करोति' विधत्ते श्राद्धः । पुनः करणक्रियाभिधानं मिन्नवाक्यत्वाददुष्टमिति । न चाऽस्यापि वक्ष्यमाणधर्मानुगतमावकौशलादभेदः, तद्धि इङ्गितादिना भावज्ञानं मुख्यतः, उपचारतस्तु तत्पूर्वकं स्थिरीकरणादिकम् । अयं तु भावस्थिरीकरणहेतुक्रियाविशेषरूपः। तदत्र क्रियायाः प्राधान्यं, तत्र तु ज्ञानस्य प्राधान्यमिति भेदः । इति गाथार्थः ॥ १७ ॥ समस्तपुरुषार्थदा जिनवरेन्द्रवाणी च या, कषयविरतिर्यथा कलुषसन्ततिच्छेदिनी । ऋजुव्यवहृतिः सदा भवति कस्य हंसीव सा, न मानसविहारिणी स्फुरदगण्यपुण्यश्रियः ॥१॥ इति युगप्रवरागमश्रीमजिनपतिसूरिशिष्यलेशविरचितायां षट्स्थानकवृत्तौ ऋजुमतिव्यवहरणं नाम चतुर्थस्थानक विवरणतः समाप्तम् ॥ अथ गुरुशुश्रूषानामकं पञ्चमं स्थानकम् । उक्तं सप्रभेदमृजुमतिव्यवहरणम् । अथैतस्यैव प्रधानकारणभूतां गुरुशुश्रूवा सप्रभेदामाह For Private and Personal use only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115