Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 88
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयभेदमाह-'मावे तु' भावविषया पुनरेवं शुश्रूषा 'तयोः पित्रोः, 'अनुकूलं ' मनःप्रसादसंपादकं देवद्रव्यसंपत्ति-च्छन्दानुवर्तनादिकमनुसरति-करोतीति, 'दानादिषु' ताम्यामेव विधीयमानवान्धवादिविषयामीप्सिताहारादिवितरणादिषु, एतदपि विशेषतः साधर्मिकादिविषयदानादौ बोद्धव्यम् । इति गाथार्थः ॥२॥ अथ लोकोत्तरगुरूंस्तच्छुश्रूषामेदांचाहअहवा वि गुरू सम्मत्त-दायगाताण होइ सुस्सूसा। इंताणभिमुहगमणं, उढाणंउट्टिएसु च ॥३॥ व्याख्या-अथवेति पचान्तरे, 'गुरवो' गौरवाः सम्यक्त्वदायका भवकोटाकोटीदुरापतत्त्वार्थविषयतयेति प्रत्ययोत्पादकाः, तेषां ' भवति' जायते 'शुश्रूषा' उपास्तिः कर्तव्येति शेषः । तत्रापि सेवा तावदाह-'पागच्छताम् उद्यतविहारेण देशान्तरादेरागमनं विदधतां गुरूणां क्वचिद् 'अभिमुखगमनं' संमुखीनं यानम् उत्थानं ' ससंभ्रममासनस्यजनम् ' उत्थितेषु' ऊर्ध्वस्थितेषु पुनः । इति गाथार्थः ।। ३॥ तथाविस्सामणाइ सम्म.-ठियाणऽणुव्वयणमेव जंताणं । संपाडणमेयाणं, समिच्छियाणं विसुद्धाणं॥४॥ व्याख्या-'विश्रामणं' स्वाध्यायादिश्रान्तानां त्रिविधसंबाधनतया शारीरश्रमापनोदनम्, मादिशब्दात्तथाविधाऽन्यवैयावृत्यभेदग्रहणं, तत् 'सम्यक् ' भावसारं त्वगादिसुखहेतुत्वेन वा 'स्थितानां 'सुखासनासीनानाम् ' अनुव्रजनमेव' For Private and Personal Use Only

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115