Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasesgarsuri Gyanmandie
पटूस्थानक प्रकरणम् ॥३४॥
सर्वानर्वार्थसार्थान् करकमलगतानादधानैव सद्यः, शुश्रूषा सद्गुरूणां किमिह न फलति प्राणभाजां
प्रसन्ना ॥१॥ इति युगप्रवरागमश्रीमज्जिनपतिसूरिशिष्यलेशविरचितायां षट्स्थानकवृत्तौ गुरुशुश्रुषास्थानकं पञ्चमं विवरणतः समाप्तम् ।।
स्थानम्
अथ प्रवचनकौशलाख्यं षष्ठं स्थानकम् । उक्ता गुरुशुश्रूषा; तस्या एव प्रधान कार्य प्रवचनकौशलमाहपवयणकोसल्लं पुण, छब्भेयं तं समासओ भणियं । सुत्ते जिणिंदभणिए, कोसल्लं ताव पढमं तु ॥१॥
व्याख्या- प्रवचनकौशलं । जिनशासनरहस्यनैपुण्यं तदनुसारिश्रद्धान-प्ररूपणबहुमान-तदर्थानुष्ठानादिव्यवहारोऽपि उपचारात्कौशलम् । 'पुनः' इत्यनेन गुरुशुश्रूषाया एतद्भिनत्ति । ‘षड्भेदं 'पदप्रकारं सूत्रादिविषयमेदात् । तदुक्तम्-" जिणसासणनिउणतं, एवं वुच्चइ तहा छभेयं च । सुत्तत्थे उस्सग्गा,-ऽववायववहारमावे य" ॥१॥ तद्' इत्यागमप्रसिद्धं, 'समासतः ' संक्षेपेण, मूलभेदापेक्षया षड्विधम् अवान्तरमेदानां बहुत्वात् । अथवा प्रवचनकौशलम् भयोच्यते इति शेषः, 'पुण छन्भेयं तं ' ति, तत्पुनः समासतः पभेदमित्येवं योजनीयम् । 'मणितम् ' उक्तं गणधरादि
॥३६
For Private and Personal Use Only

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115