Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 92
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिरिति गम्यते । तत्रापि सूत्रे एव समस्तजन्तुजातहितार्धमागधभाषोपनिबद्धाऽविरुद्धार्थशब्दसंदर्भरूपे एव जिनेन्द्रमाणिते अर्थतस्तीर्थकरोपदिष्टेः शब्दवस्तु गणधरहन्धेऽपि परम्परया तीर्थकरापेदिष्टत्वमेव । तदुक्तम्-" भत्थं मासह परिहा, सुचं गंथन्ति गणहारा निउणं " इति । कौशलं तदुपदिष्टत्वज्ञाननैपुणम् । तावच्छन्दः क्रमार्थः । अर्थकौशलाद्यपेचया 'प्रथम' पूर्व, ' तु: ' एवकारार्थो योजित एच, सूत्रस्यादिप्रतिपादकत्वेन प्राधान्यविवक्षया तत्कौशलस्य प्रथममाभिधानम् । इति गाथार्थः ॥१॥ तदेवाहजाणइ जिणिंदभणियं, एयं पुत्वावरेण अविरोहा । एयं पुत्वावरबाहियं तु जिणभासियं तं नो॥२॥ ___ व्याख्या-जानाति' सद्गुरुशुश्रूषादेनिश्चिनोति · जिनेन्द्रमणितं ' तीर्थकरप्रणीतम् ' एतत् ' प्रत्यचोपलभ्यमानमाचाराङ्गादिकम् , कुतः इत्याह-पूर्वापरेणाऽविरोधात् , सूत्रपूर्वभागोपदिष्टोऽर्थोऽहिंसादिरुपचारात् पूर्व इत्युच्यते, एवमपरोऽप्यर्थ एव । ततश्च पूर्वस्यापरेण हिंसादिप्रतिपादकत्वेनाऽविरोधादनिषेधनात् । नहि पूर्वमहिंसादकं प्रतिपाद्य पश्चाद्धिंसादिकं प्रतिपादयत्येतदिति भावः । एतदेव च जिनेन्द्रमाणितमित्यभिदधताभिव्यज्जितं वितथविरुद्धामिधानाऽव्यमिचारिकारणरागादिदोपजेशिरोमणयो हि जिनेन्द्राः । ते चाप्ताः कथं विरुद्धं भाषिष्यन्त इति । यथा च वीतरागस्याविरुद्धभाषित्वमेव तथा प्रथमस्थानकविवरणेऽभिहितमिति । ततश्च पूर्वापराविरुद्धं यत्सूत्रं तदेव जिनेन्द्रभाषितमेवेति निश्चिनोतीति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115