Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 87
________________ Shri Mahavir Jain Aradhana Kendra पदस्थानक अफरवर ॥ ३७ ॥ K **********+--- www.kobatirth.org गुरुस्सा तिविहा, सेवासंपाडणेण भावे य । इहलोय गुरू पियरो, सुस्सूसणं कुणइ ताणं ॥ १ ॥ व्याख्या -' गुरूणां ' पूर्वोक्तस्वरूपाणां ' शुश्रूषा ' सामान्येन पर्युपासना ' त्रिविधा ' त्रिप्रकारा । सेवासंपादनेनेति । शिरोनमनाञ्जलि प्रग्रहसमासन्नसदावस्थिति - ससंभ्रमादेशादिविधानं सेवा, वाञ्छिताहारादिसकलवस्तुभिस्तद्देहपरिजनादिकार्य संपादनमेव च संपादनम्, ताभ्यां ते एव वा शुश्रूषा, एकवचनं प्राकृतत्वात् समाहाराद्वा । भाव आत्मपरिणाम विशेषः, तद्धेतुर्विशिष्टदान - संमानादिरपि भावः, तत्र च तद्विषये च शुश्रूषेति प्रकृतम् । भावस्य च भिनविभक्तित्वेन भेदेन चोपन्यासः पूर्वद्रय संपाद्यत्वात् प्राधान्यख्यापनार्थः । गुरुशुश्रूषेत्युक्तम्, तत्र च ' इहलोके ' एतद्भवे एवाऽचिन्त्य - महिमचिन्तामणिकन्पसद्धर्मप्रभृति सकलपुरुषार्थ संपत्तिनिमित्तजन्म संपादकत्वाद् 'गुरू' गौरवाहीँ ' पितरौ ' माता-पि तरौ, ततस्तयोः ' शुश्रूषणं ' पूर्वोपदर्शितशिरोनमनादिसेबाल चणमादरतः ' करोति ' विधते । अनेन च सामान्यवचनेन श्राद्यः शुश्रूषाभेदः प्रतिपादितः । इति गाथार्थः ॥ १ ॥ अथ द्वितीय तृतीया वाह आहार-वत्थ-सयणा - इपसु उज्जमइ इच्छियतरेसु । भावे उ ताणमणुकूल- मायरे दाणमाईसु ॥२॥ व्याख्या—— आहार-वस्त्र-शयनादिकेषु' भोजना -ऽऽच्छादन - शय्योपवेशनाऽ-लंकारादिषु . ' ईप्सिततरेषु' मनोहारितयाऽत्यन्तप्रियेषु ' उद्यच्छति ' सर्वादरेणोद्यमं करोति, तयोः संपादयत्येतान् इत्यर्थः । अनेन द्वितीयभेद उक्तः । अथ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *******--03 पञ्चमं स्थानस् ॥ ३७ ॥

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115