Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 77
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणाम् चतुर्थ स्थान ॥३२॥ धर्मोपायानेशहदाणं सीलं च तवो, भावणमाईहि सिज्झए धम्मो। दाणाणमभयदाणं, जिणदाणं साहुदाणं च ॥७॥ व्याख्या-'दान' वितरणं, ' शीलं ' मनःसमाधानं, 'तपो' अनशनादिक, 'चः' समुच्चयार्थोऽत्र योज्यः, एते धर्मोपायाः । तथा 'भावना ' अनुमोदनादिप्रधानविशुद्धात्मपरिणामरूपा तत्वपरिच्छेदाभ्यासरूपा वा, सा भादिर्येषां त्यागादीनां तैः, किमित्याह-'सिध्यति' निष्पद्यते 'धर्म:' श्रेयः । इह च भावनाया दानादिभ्यो भेदेन शेषगुणसंग्राहकाऽऽदिपदसंबद्धत्वेन चोपादानं सर्वेषामप्येषां भावनासनाथानामेव विशिष्टफलसाधकत्वख्यापनार्थम् । दानं चाsनेकधा, इति विशिष्टविषयं तदाह-'दानानां वितरणानां मध्ये विशिष्टमिति शेषः, 'अभयदानं' सवाऽव्यापादनसंकन्पः, जिनदानं साधुदानं च तदुद्देशेन वित्तव्यय इति गाथार्थः ॥७॥ जीवितादिभयभीतानां भयापहरणपटिष्ठरचणलक्षणतया सुप्रसिद्धत्वादभयदानस्य तदुपेक्ष्य जिनदानमेवाहकुसुमाभरणविलेवण,-सुगंधिध्याइ होइ जिणदाणं। कारावणं च चेई,-हराण तह य वरबिंबाणं ॥७॥ व्याख्या-'कुसुमानि' जात्यादिपुष्पाणि, 'आमरणानि' मुकुटायलंकरणानि, 'विलेपनं ' चन्दनादिसमलम्भनं, 'सुगन्धिधूपः' सुरभिकर्पूरागुरुप्रभृतिद्रव्यसंघात; ततः कुसुमानि चेत्यादिद्वन्द्वः । मादिशब्दाद् वास-वस्त्र ॥३२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115