________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदस्थानक प्रकरणाम्
चतुर्थ
स्थान
॥३२॥
धर्मोपायानेशहदाणं सीलं च तवो, भावणमाईहि सिज्झए धम्मो। दाणाणमभयदाणं, जिणदाणं साहुदाणं च ॥७॥
व्याख्या-'दान' वितरणं, ' शीलं ' मनःसमाधानं, 'तपो' अनशनादिक, 'चः' समुच्चयार्थोऽत्र योज्यः, एते धर्मोपायाः । तथा 'भावना ' अनुमोदनादिप्रधानविशुद्धात्मपरिणामरूपा तत्वपरिच्छेदाभ्यासरूपा वा, सा भादिर्येषां त्यागादीनां तैः, किमित्याह-'सिध्यति' निष्पद्यते 'धर्म:' श्रेयः । इह च भावनाया दानादिभ्यो भेदेन शेषगुणसंग्राहकाऽऽदिपदसंबद्धत्वेन चोपादानं सर्वेषामप्येषां भावनासनाथानामेव विशिष्टफलसाधकत्वख्यापनार्थम् । दानं चाsनेकधा, इति विशिष्टविषयं तदाह-'दानानां वितरणानां मध्ये विशिष्टमिति शेषः, 'अभयदानं' सवाऽव्यापादनसंकन्पः, जिनदानं साधुदानं च तदुद्देशेन वित्तव्यय इति गाथार्थः ॥७॥
जीवितादिभयभीतानां भयापहरणपटिष्ठरचणलक्षणतया सुप्रसिद्धत्वादभयदानस्य तदुपेक्ष्य जिनदानमेवाहकुसुमाभरणविलेवण,-सुगंधिध्याइ होइ जिणदाणं। कारावणं च चेई,-हराण तह य वरबिंबाणं ॥७॥
व्याख्या-'कुसुमानि' जात्यादिपुष्पाणि, 'आमरणानि' मुकुटायलंकरणानि, 'विलेपनं ' चन्दनादिसमलम्भनं, 'सुगन्धिधूपः' सुरभिकर्पूरागुरुप्रभृतिद्रव्यसंघात; ततः कुसुमानि चेत्यादिद्वन्द्वः । मादिशब्दाद् वास-वस्त्र
॥३२॥
For Private and Personal Use Only