________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्त्वात्सकाशात् , 'यतिषु' इति यतीनां संबन्धिन्या इत्यर्थः । सम्यक्त्वं हि यतीनां श्रावकाणां च यावजीवं त्रिविधं त्रिविधेन मिथ्यात्वपरिहारेणैव शुद्धं भवति, शेषां च क्रिया मावस्तवरूपा साधूनां, श्राद्धानां तु द्रव्यस्तवरूपा । ततश्चासौ श्रावको यतीनां सम्यक्त्वमेकं विहाय शेषा यतिक्रियाया भन्यां प्ररूपयति करोति चेति करणाविसंवादा, अन्यथा तु प्ररूपण-क्रिययोर्विसंवाद इति गाथार्थः ॥ ५॥
अथ तमेव व्यवहारविषयं दर्शयन्नुपायाविसंवादमपि शेषपुरुषार्थसाधकतमत्वेन प्राधान्याद्धर्मस्य तद्विषयं तावत् |* प्रस्तौतिववहारे पुण ऊणं, न देइ पडिरूवगं नवा कुणइ । जाणइ उवायमूलं, धम्मस्स य तं तहायरइ॥६॥
व्याख्या-धर्मे तावदुक्तः करणाविसंवादो, 'व्यवहारे' क्रय-विक्रयादिरूपे 'पुनरून' प्रस्तुतमूल्यलम्यादतिहीनं वस्तु ' न ददाति ' नैव ग्राहकस्य प्रयच्छतीति । 'प्रतिरूपः सदृशो व्रीह्यादेरिव पलिजादिः, स एव प्रतिरूपका, तेन व्यवहारोऽप्युपचारात् प्रतिरूपकः, तं न करोति ' न विधत्ते यदि तदा क्रियाऽविसंवाद इत्यर्थः । तथा · जानाति' बुध्यते ' उपायाः' साधनानि तेषामपि ' मूलम् ' भाचं-वक्ष्यमाणदानादिकं 'धर्मस्य' पुण्यस्य, चशब्दः पूर्वाऽविसं
वादसमुच्चयार्थः । ज्ञात्वा च तदुपायमूलं ' तथैव ' ज्ञातानुसारेण 'माचरति ' व्यापारयति; धर्मादावुपेये दानादिकमेवो* पायं व्यापारयन्नुपायाऽविसंवादीति गाथार्थः ॥ ६॥
For Private and Personal Use Only