SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit पटूस्थानक चतुर्ष स्थानम् ॥३१॥ तथा' सत्या भणत:' च्याधितप्रभृतीनां पुरतः प्रतिपादस्तः, अन्यथा त वैद्यान्तरवचनेन विसंवाद इति भावः, तथा 'राज्ञोऽपि' नृपस्यापि भृत्यादिसंबन्धिनमपराधम्-दूषणं 'यथास्फुटं ' येन प्रकारेण व्यक्ततया चौरादेः सकाशात्प्रतीतं तथैव 'व्याकुर्वाणस्य' अभिदधत इति । अत्र च भणात इत्यनुवृत्तावपि व्याकुर्वाणस्येत्यभिधानं न दुष्टम् , मिन्नवाक्यत्वाद् , एवं पूर्वगाथायामपि, लोभ-द्वेषादिना स्वन्यथा प्रकाशने चरादिवचनविसंवाद इति । वचनविसंवादाविसंवादयोश्च दोष-गुणा लोकप्रकटा एव । तथा चोक्तम्-" अनृतवचनवादी चेत्प्रतीतः पुरा, असौ तदनु यदि सत्यं दैवयोगाद् ब्रवीति तदनृतमिति लोके प्रत्ययः, लाघवं स्याद्, भवति पुनरवज्ञा, तद्वतो जीवितं किम् ? । तथा-संपद्येरनचलवचसा कीर्ति-धर्मा-ऽर्थ-कामा:, कामं लोका विहितमहितात्मीयभावाः समस्ताः। त्यक्त्वा शङ्कां घनमिव निजं गुह्यमावेदयन्ति, सर्वे यद्वा गुरुगुणगणाः सत्यभाजो भवन्ति ॥१। इति गाथार्थः ॥ ४ ॥ वचनाविसंवादफलत्वात् क्रियाऽविसंवादस्य, इति तदनन्तरं तमेव धर्मविषयं तावदाहकिरियाअविसंवाओ, धम्मे जह पन्नवेइ तह कुणइ। गिहिणो किरियं इयरं, जईसु संदंसणाहिंतो॥५॥ व्याख्या-क्रियाऽविसंवादः' प्रागुक्तशब्दार्थः, स च 'धर्मे ' धर्मविषये, कथम् ? इत्याह-'यथा प्रज्ञापयति' द्वि-त्रादिश्राद्धमध्ये प्ररूपयति श्रावकः सुगुरूपदेशानुसारेण तथैव' प्ररूपणानुसारेण 'करोति' विधत्ते । 'गृहिणः' आक्कस्य 'क्रिया' सामाचारी-देवपूजादिद्रव्यस्तवरूपाम् , ' इतराम् ' भन्या 'संदसणाहिंतो 'ति-सद्दर्शनात् सम्य For Private and Personal Use Only
SR No.020700
Book TitleShatsthanak Prakaranam
Original Sutra AuthorN/A
AuthorJineshvarsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy