SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie बदस्थानक प्रकरणम् द्वितीय स्थानम् ॥ २०॥ सत्यं, तदपि ' अबाधकं' परिणामपथ्यत्वात्स्वपरयोर्दुःखानुत्पादकमबाधादं वा । इस्वत्वं प्राकृतत्वात् । पाठान्तरेण त्वचाधितं पूर्वापराव्याहतार्थम्, अत एवेह परत्र हितकारि, एतजन्मनि जन्मान्तरे चानुकूलसंपत्तिहेतुः। ईदृशं 'वचन' वाक्यं 'भाषते' ब्रूते, उत्सर्गतः शीलवान् श्राद्ध इति प्रक्रमः ।' कार्ये' सद्धर्मानुगतप्रयोजने । अनेन निष्प्रयोजनमीडशस्यापि वचनस्य निषेधमाह-तथा — विकृतं ' वक्ष्यमाणलवणं वचनमेव 'परिहरति ' वर्जयति ‘यत्नेन' आदरेण, तदपरिहारे मधुरादिभापित्वाऽनिर्वाहात् । इति गाथार्थः ॥ ६ ॥ अथ सान्वयं विकृतमेवाह - विकियं विकारवन्तं, इहपरलोयाण दोससंजणयं । इहलोयदोसहेऊ, रे मारियदासविसलत्ति ॥७॥ व्याख्या-'विकृतं' विरूपमिति लक्ष्य 'विकारवत्' इति लक्षणम् । तत्र विकारश्चेतसोऽन्यथात्वं, मदमदनमत्सरापुपप्लुतत्वम् । तद्युक्तं यन्मनस्तद्विकारवत् । तन्निमित्तकं वचनमप्यभेदोपचाराद्विकारवत् । मदाद्यभावे तादृग्वचनाभावादिति भावः । तदुक्तम्-" मयणाउरोति मयविं-भलुति मच्छरपउट्ठचितुत्ति ।। जं वयणं वयमाणो । जणेण नजिअ तं वर्ज ॥१॥" अथ कार्यमस्याह-इहपरलोकयोर्दोषसंजनकं, तत्रेहलोकदोषा भात्मलघुताजनविरोधबन्धनधनप्राणनाशादयः, वापरलोकदोषाः कुगतिपातादयस्तेषामुत्पादकं उभयलोकबाधकामेत्यर्थः । तत्रापीहलोकदोषसंजनक एतजन्मनि क्षणोत्पादक म् । किम् ? इत्याह-रे मारित दास वृषल इति । परलोकबाधकं त्वग्रे वक्ष्यत इत्यभिप्रायः । तत्र 'रे' इति निन्दार्थे संबो- 1 ॥२०॥ For Private and Personal Use Only
SR No.020700
Book TitleShatsthanak Prakaranam
Original Sutra AuthorN/A
AuthorJineshvarsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy