________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
| धनम् । मारितो विनाशितस्त्वं मया अन्येन वेत्याक्रोशवचनम् । दासोऽङ्कपतितः कर्मकरः, वृषलो हीनजातिरित्येतावप्याक्रोशविशेषौ । इतिशन्दा सामान्याक्रोशप्रकारसमाप्त्यर्थः । इति गाथार्थः ॥७॥ ___ अथ विशेषतस्तानभिदधानस्तत्फलमप्याहरे असयपुत्त ! माइय, माया ते एरिसी कया हुज्जा । एवं खरफरुसहओ,मारिज व तं दुभासिलं ॥८॥
व्याख्या-रे' इति पूर्ववत् । प्रभुतस्य लोके जनकत्वेनाप्रतीतस्य पुत्रः सूनुरश्रुतपुत्रो जारजात इति यावत् , तस्यामन्त्रणम् । अथवा हीनजाति कश्चन जनकं कटाक्षीकृत्य वक्ति, अमुककपुत्रः अमुकस्य पुत्रस्त्वमिति । ह च रेशब्दस्य अश्रुतपुत्रशब्देन समभिव्याहृतस्यात्यन्तदुःखोत्पादकत्वख्यापनार्थत्वान्न पौनरुत्यम् । तथा 'माइय' इति मा स्म त्वमागा इत्याक्रोशः । अथवा मातृगो जननीप्रतिसेवकः । तथा 'माता' जननी'ते'तव मयाऽन्येन वा 'ईशी कृता भवेत् ' प्रतिसेविता संपादिता स्यात् । अथवा या माता ते भवादशस्य दुष्पुत्रस्य जनयित्री सा कदेशी भवेत् सती स्यान कदाचिदित्यर्थः । एतद्भाषणफलमाह-एवं' उक्तन्यायेन खरैगाढैः शन्दतः पश्चाश्राव्यैरर्थतो हतोऽन्तर्मर्मव्यथितः सन् श्रोता शक्तिमान् ‘मारयेत् ' विनाशयेत् । वा शब्दो विकन्पार्थः । तेन तथाशक्यमावे खरपरुषतरैः प्रतिहन्याद्वा तं दुर्भाषावन्तं पुरुषमिति गम्यते । अस्त्यर्थे इलः प्राकृतः । इति गाथार्थः ॥८॥
एवं च दुर्भाषावानिति दर्शनार्थ पुनः पुरुष प्रकारान्तरेणाह
For Private and Personal use only