Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
पदस्थानक
प्रकरणम्
॥ २६ ॥
+++*****
www.kobatirth.org
सम्यक् श्रावकसामाचारी श्रोता हि तामनुतिष्ठ भेव श्रावक उच्यते, ततस्तस्य तत्परिहारे न किश्चित् कौतुकमिति भावः । ' नवरं ' केवलं विशेषतश्चेति यावत् । सुश्राविकाः - प्रवरश्रमणोपासकाऽङ्गनाः दुर्नेपथ्यं - वेश्याद्युचितविकृतवेषं वर्जयन्ति-परिहरन्त्येव, ' तु ’ शब्दोऽवधारणार्थः । अथवा श्रावकवत् श्राविका अपि परिहरन्त्येव तम्, न तत्र कौतुकम् ; नवरं सुश्राविकाः पुनः ' दुन्नियच्छं' ति दुर्निवसितं - दुष्परिहितं वर्जयन्ति । अत्र पढ़े ' तु' शब्दः पुनरर्थो योजितव, तेनाऽनुद्भटत्वादिगुणोपेतमपि परिधानमश्चलद्वय परस्परानुस्यूतमेव परिदधति । तथा सुश्लिष्टमपि कञ्चुकमनाकृष्टमेव, महदप्युतरीयं ललाटाद्यावारकमेव, महार्घमध्याभरणं मुहुर्मुहुर प्रकाशितमेवेति काश्चिन्मन्दधर्मवासनाः श्राविका अपि नैवमुपलभ्यन्ते, अतः सुश्राविका इत्युक्तमिति गाथार्थः ॥ २३ ॥
कायिक-वाचनिकानभिधाय प्रथाध्यात्मिकं षष्ठं शीलभेदमाह
अदुराराहतं पुण, छट्ठ अंगं तु सीलवत्तम्मि । परियणसयणमहायण, अणुकूल तिहिं पि करणेहिं ॥
व्याख्या--' महाप्रयत्नप्रसाधितप्रयोजनशतैरपि यो नाराध्यते-न प्रसाध्यते स दुराराधः तद्विपरीतोऽदुराराधः, तद्भावोऽदुराराधत्वं सुखाराध्यत्वमित्यर्थः । ' पुनः ' शब्दो विशेषणार्थः । षष्ठमङ्गम् श्रवयवो भेद इत्यर्थः, शीलवच्चे प्रक्रान्ते इत्यर्थः । ' सीलवत्तम्मि ' इति च षष्ठ्यर्थे सप्तमी । अथवा भङ्गं कारणं शीलवरचे प्रक्रान्त एव । कथमस्य शीलाङ्गता ? इति चेत्, उच्यते — दुराराधस्य हि रोषाद् वधादिप्रवृत्तौ धर्मादिध्वंसकत्वात् । तदुक्तम् — “ सयखेण परियणेण
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीय स्थानस्
॥ २६ ॥

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115