________________
Shri Mahavir Jain Aradhana Kendra
+++******+0
www.kobatirth.org
व्यवस्थापितसुविहितजनगृहिसदन निवासः प्रमोदितसंविग्नमुनिजनमनः कुमुदखण्डः प्रवचन महाप्रासादशिखरोन्नत कनक केतुदण्डः सतर्कागमादिसमस्त विद्यावदातबोधरञ्जितसकलको विदवरः शिवपथप्रस्थित संविग्नमुनिजनाग्रेसरः सर्वप्रकारपरित्यक्तभूरिः श्रीमजिनेश्वरसूरिव्यप्राणिगणोपचिकीर्षया निखिलशाक्य भौतादिपाखण्डिमण्डलाभिमतकुदेव कुगुरुकुधर्ममार्गखण्डनं प्रमाणोपपन्नसर्वज्ञसद्गुरु सद्धर्ममार्गस्वरूपप्रतिपादन मण्डनं पूर्वयुगप्रवरागमविरचितातिगम्भीरार्थगाथायुगलक विवरणरूपमिदं षट्स्थानकाख्यं श्रावकवक्तव्यतापरनामकं प्रकरणं चकार । तत्र चादावेव तावदेतत्प्रकरण महापुरप्रवेशद्वारभूतं गाथायुगलकमुपन्यस्यति स्म -
कयवयकम्मयभावो, सीलत्तं चैव तह य गुणवैत्तं । रिउमइववहरणं चिय, गुरुसुस्सूसा य बोद्धव्वा १ पवयणकोर्सेल्लं पुण, छट्ठं ठाणं तु होइ नायव्वं । छट्टा गुणेहिं जुओ, उक्कोसो सावओ होइ २
अस्य व्याख्या - व्रतानि - नियमाः, तानि चात्र स्थूलप्राणातिपातविरमणादीनि तान्येव कर्म-परिकर्म पूर्वसेवा इत्यर्थः । तत्रार्थादेव यतिधर्मस्य ! अथवा व्रतानि - सर्वथा प्राणातिपातविरमणादीनि तेषां कर्म - परिशीलनमणुव्रतादिपालनरूपपूर्वसेवालक्षणम् । ततः कृतं विहितं व्रतपरिकर्म- महाव्रतप्रतिपत्तिहेतूनामभ्यासो येन स तथोक्तः, स एव कृतव्रतकर्मकः, तस्य भावस्तस्वम् । शब्दस्य हि प्रवृत्तिनिमित्तं भावो यथा वृक्षस्य वृक्षत्वम् । तथा च येन निमित्तेनाव्रतप्रतिपश्यादिना श्राद्धः कृतव्रतकर्माऽभिधीयते स कृतव्रतकर्मकभावः । अथवा व्रतानि श्रणुव्रतादीनि तेषां परिशीलनं मार्गश्रवण ज्ञानादिरूपम् ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
+703+******+ ***40****