________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदस्थानक प्रकरणम्र
प्रथम स्थानम्
॥२॥
* अयमभिप्रायः,-यथा मन्त्रादिसिद्धये मान्त्रिकेण पूर्व शुचिस्थानपथ्याशनब्रह्मचर्यादिकमभ्यस्यते, तथा श्राद्धेनापि देशवि.
तेन भावतः सर्वविरत्यर्थिना पूर्वमणुव्रतादीनि निरतिचाराण्यनुपालनीयानि । अविरतेन तु देशविरत्यर्थिना श्रवणादीन्येवाभ्यसनीयानीति १॥ तथा शीलं-सच्चरितं तच्चायतनसेवादिरूपम् । ततः शीलवत्त्वं-सदाचारवचं, प्राकृतत्वाद्वकारलोपः। 'चः' समुच्चये । 'एव' इत्यवधारणे । तेन शीलवचमेवेक श्राद्धस्य विशिष्टत्वमभिव्यनक्तीति । न चैतावता कृतव्रतकर्मत्वादीनां तदनभिव्यञ्जनकत्वप्रसक्तिः, शीलवत्ववत् तेषामप्येकैकशस्तदभिव्यञ्जनकत्वादिति भावः । एवमग्रेऽपि यथासंभवं वाच्यम् २॥ तह य गुणवत्तं' इति । ' तथा च ' इत्यपि समुच्चये । “यावन्ति समुच्चये पदानि तावन्ति समुच्चयपदानि" इति न्यायेन न पौनरुक्त्यशङ्कावकाशः । स्वात्मन्यतिशयविशेषोत्पादका धर्मा गुणाः, ते च तत्वतः सम्यग्दर्शनादयः, तयुक्तत्वं गुणवचं-सूत्ररुच्यादिमत्वमित्यर्थः ३॥ तथा ऋजुः-अकुटिला मति:-बुद्धिस्तया व्यवहरणं-वृत्त्यर्थ व्यापरणं ऋजुमतिव्यवहरणं वचनाविसंवादादिरूपम् । 'चिय' इत्यवधारणे, स च शीलवत्वमेवेतिवद्भावनीयः ४ ॥ तथा गुरूणां-लोके लोकोत्तरे च गौरवाहोणामाचार्यमातृपित्रादीनां (शुश्रूषा-) आभिमुख| गमनादिप्रतिपत्तिलक्षणा सेवा गुरुशुश्रूषा । सा च 'बोद्धव्या' ज्ञातव्या श्रावकस्य स्थानत्वेन । षष्ठस्थानोद्देशपर्यन्तवतिज्ञातव्यपदादेव तचद्विशेष्यलिङ्गानुसारेण सर्वस्थानसंबन्धाद् गुरुशुश्रूषास्थानसंबन्धे लब्धेऽपि यत्र बोद्धव्यपदोपादानं तत् समस्तस्थानानां गुरुशुश्रूषासाध्यत्वेन तस्याः सर्वोत्कृष्टत्वतो विशेषेण ज्ञातव्यताज्ञापनार्थमित्यर्थः ५ ॥१॥ 'प्रवचनकौशलमेव ' जिनशासननैपुणमेव । 'पुनः' शब्दः पूर्वस्माद्विशेषणार्थः । षष्ठं स्थानं त्विति, तिष्ठति
For Private and Personal Use Only