________________
Acharya Shri Kailassagarsuri Gyanmandit
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रावकोऽस्मिन्नवहितमनस्कतया वर्तत इति स्थानं थावकस्य विशिष्टत्वामिव्यञ्जक आचारविशेषः ॥६॥ 'तुः' एवकारार्थः, स च योजित एव । ' भवति' वर्त्तते 'बोद्धव्यं ' ज्ञातव्यम् । ततश्चैतैः 'पदस्थानगुणैः ' षट्संख्यश्रा| वकानुष्ठान विशेषः 'युक्तः' संगतः, उत्कृष्यते शेषेभ्य इत्युत्कर्षः-उत्कृष्ट इत्यर्थः, 'श्रावकः' तत्वतो यथावस्थितभगव| द्वचनश्रोता ' भवति' संपद्यते । शेषास्तु नाममात्रेणेव । इति द्वारगाथायुगलकार्थः ॥ २॥
अथैषां स्थानानां किमर्थमेवं क्रमेणोपन्यासः ? उच्यते-सर्वेषां परस्परतो हेतुहेतुमद्भावादेरेवमेव सिद्धेः। तथाहिसमस्त रोषस्थानसाध्यत्वेन श्रावकत्वपदव्याश्च परमप्रकर्षरूपत्वेन मृ भिषिक्ततया व्रतपरिकर्मण भादावुपन्यास: । यत:"न विणा परिकम्मेणं, सम्मं संभवइ कजसंसिद्धी ।। परमा परमपयफला, सुमंतिणो मंतसिद्धि व्व ॥१॥" तदनन्तरं तस्यैवाऽऽद्यकारणभूतस्य शीलवत्वस्य । यतः--" सील हि सयायारो, सामन्नेणावि जस्स सो नत्थि । अइबालो व्व कहं सो, सावगधम्मस्स जोगो ति ॥१॥" ततोऽपि शीलप्रधानकार्यभूतस्य गुणवचस्य । यतः-"सीलेर्ण वि किं तेणं, संकासेणं तु कासकुसुमस्स । जत्तो वरगुणवतं, रमणिजफलं न संपन्नं ॥१॥" गुणवत्वोपन्यासोत्तरकालं तु सामान्यतो
१ "श्रावक वि" इति प्रत्यन्तरे ।। २ न विना परिकर्मणा, सम्यक् संभवति कार्यसंसिद्धिः । परमा परमपदफला, सुमन्त्रिणो मन्त्रसिद्धिरिव ।। ३ शीलं हि सदाचारः, सामान्येनापि यस्य स नास्ति । अतिबाल इव कथं स, श्रावकधर्मस्य योग्य इति ।। ४ शीलेनापि किं तेन, संकाशेन तु काशकुसुमस्य । यतो वरगुणवत्त्वं, रमणीयफलं न संपन्नम् ।।
For Private and Personal Use Only