________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदस्थानक प्रकरणम्
प्रथम स्थानम्
गुणवत्वकार्यभूतस्य ऋजुमतिव्यवहरणस्य । यत:-" रिउववहरणं जीए, संपाडिजइ पसंसिया सा उ । सग्गुणलच्छी विउला, जलनिहिवेल व विलसंती ॥१॥" तदनन्तरं तु ऋजुमतिव्यवहरणस्यैव प्रधानकारणभूताया गुरुशुश्रूषायाः । यतः-" परमफलस्स वि हेऊ, गुरुसुस्म्सा पवड्डिया नियमा । कप्पलय व्व समुज्जुय-ववहरणस्स उ किमिह चुजं ॥१॥" ततोऽपि तस्या एवं प्रधानकार्यभूतस्य प्रवचनकौशलस्य । यत:-" कह पवयणकोसल्लं, तेसिं संभवइ नणु जडाणं च । जेसिं गुरुसुस्सा , नाभिमुही भारइ व्व सया ॥१॥" तदेषामेवं क्रमोपन्यासे तात्पर्यम् । तत्रापि व्रतपरिकर्मणि यत् पूर्व श्रवणस्याभिधानं तत् श्रवणस्यैव सर्वस्थानमूलत्वख्यापनार्थम् । उक्तं च-" सुर्ची जाणइ कल्लाणं, सुचा जाणइ पावयं । उभयं पि जाणई सोच्चा, जं सेयं तं समायरे ॥॥" ननु तथापि किमेतत्स्थानषटकयुक्तस्यैव श्रावकता ? उत श्रावकस्य सतः षट्स्थानयोगः ? न तावदाद्यः, तद्विकलस्यापि शास्त्रे श्रावकत्वश्रवणात् । तदुक्तम्-"धम्मॅरयणस्स जोग्गो, अक्खुद्दो ?
१ ऋजुव्यवहरणं यया, संपाद्यते प्रशंसिता सा तु । सद्गुणलक्ष्मीविपुला, जलनिधिवेलेव विलसन्ती ॥ २ परमफलस्यापि हेतु-गुरुशुश्रूषा प्रवर्धिता नियमात् । कल्पलतेव समृजुक-व्यवहरणस्य तु किमिहाश्चर्यम् ॥ ३ कथं प्रवचनकौशल्यं, तेषां संभवति ननु जडानां च । येषां गुरुशुश्रूषा, नाभिमुखी भारतीव सदा ॥ ४ श्रुत्वा जानाति कल्याणं, श्रुत्वा जानाति पापकम् । उभयमपि जानाति श्रुत्वा, यत् श्रेयस्तत् समाचरेत् ।। ५ धर्मरत्नस्य योग्योऽक्षुद्रो रूपवान् प्रकृतिसौम्यः । लोकप्रियोऽक्रूरो, | मीरुरशठः सदाक्षिण्यः॥
॥
२
॥
For Private and Personal Use Only