________________
Shri Mahavir Jain Aradhana Kendra
•*@**•»**← +++1+o→→**<-•*•*Z*>**<***@**→→←→
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"
रूवनं २ पगइसोमो ३ | लोयपिओ ४ अकूरो ५, भीरू ६ असढो ७ सदक्खिन्नो ८ ॥ १ ॥ लज्जालुओ ९ दयालू १०, मज्झत्थो सोमदिट्टि ११ गुणरागी १२ । सकह १३ सपक्खजुत्तो १४, सुदीहदंसी १५ विसेसन्नू १६ ॥ २ ॥ बुड्डाणुगो १७ वीओ १८, कयन्नुभो १९ परहियत्थकारी य २० । तह चैव लद्धलक्खो २१, इगवी सगुणो हवइ सड्डो || ३ || " नापि द्वितीयः । यदा हि प्रागेव श्रावकत्वमस्ति तदा किमनर्थकेन षट्स्थानयोगेन ? । किश्श' बाणगुणेहिं' इत्यादिना विरुद्धाभिधानेन १, इति चेत् नैवम्, सामान्यविशेषभावेनोभयस्याप्युपपत्तेः । तथाहि यत् शास्त्रे स्थानयोगमन्तरेणापि श्रावकत्वं श्रूयते तत् सामान्येन विशिष्टश्रावकत्वयोग्यतामाश्रित्येत्यवगन्तव्यम्, अत एव तत्र ' धम्मरयणस्स जोग्गो' इत्युक्तम् । पट्स्थानयोगे तूत्कृष्ट श्रावकता, अत एव तत्र, ' उक्कोसो सावगो होइ ' इति प्रत्यपादि । तदुद्देशेन च - " संपत्तदंसणाई, पइदियहं जइजणा सुगेई य । सामायारिं परमं, जो खलु तं सावगं चिंति ॥ १ ।। " इत्यादि शास्त्रम् । शेषं त्वपुनर्बन्धकाद्यवस्थावर्तिस्वरूपाभिधानपरमिति व्यवसेयम् । अपुनर्बन्धकाद्यवस्थायां हि प्रणश्यतीव प्रबलतरमिथ्याभिनिवेशपिशाचः, समुन्मिषतीव प्रभाकराकारः सद्बोधः, समुल्लसन्तीव धर्मशुश्रूषाद्यङ्कुरकोट्य इत्यलमतिप्रसङ्गेन । प्रकरणादौ नमस्कारानुपन्यासचर्चाप्यत एव न क्रियत इति प्रस्तुतमारम्यते ।
१ लज्जालुको दयालु - मध्यस्थः सौम्य दृष्टिर्गुणरागी । सत्कथः सपक्षयुक्तः, सुदीर्घदर्शी विशेषज्ञः ॥ २ वृद्धानुगो विनीतः, कृतज्ञकः परहितार्थकारी च । तथा चैव लब्धलक्ष्य, एकविंशतिगुणो भवति श्राद्धः ॥ ३ संप्राप्तदर्शनादिः प्रतिदिवसं यतिजनात् शृणोति च । सामाचारीं परमां यः खलु तं भावकं ब्रुवते ॥
For Private and Personal Use Only
***++****+******+