Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
++******+ ***««********
www.kobatirth.org
शनिनः शाक्यादयः । लौकिकभावानायतनमेतत् । अस्याप्युपलचणत्वाल्लौकिकद्रव्यानायतनलोको तरिकद्रव्य भावानायतनानामपि परिहारो द्रष्टव्यः । तत्र हरभवनादि लौकिकं द्रव्यानायतनम् । तदुक्तम्- “ दब्बे रुद्दाइहरा " इत्यादि । असदाचारप्ररूपणकरणप्रवणास्तु लिङ्गिनो लोकोत्तरिकं भावानायतनम् । तदुक्तम् " अह लोगुत्तरियं पुण, अणाययणं भावश्रो पुणेयब्वं ॥ जे संजमजोगाणं, करिन्ति हाणि समत्थादि ॥ १ ॥ " यत्र चैते जिनप्रवचनप्रतिपन्थिनो निवसन्ति तद्वेश्यादिसदनवत्तत्संसर्ग दूषितत्वात्स्थानमप्युपाधिभेदादनायतनम् | यदुक्तम् - " जत्थ साइम्मिया बहवे, भिन्नचित्ता प्रणारिया ।। लिङ्गवेसपच्छिना, अणाययणं तं वियाखाहि ।। १ ।। " अन्यतीर्थिकपरिगृहीतानां जिनबिम्बानामप्यवन्द्यत्वाद्यभिधानातेषामपि लोकोत्तरिकद्रव्यानायतनत्वमेव द्रष्टव्यम् । तत्र तदाराधनस्यापि सम्यक्त्वादिभ्रंश हेतुत्वात् । एवमेव चावन्द्यत्वाद्यभिधानमुपपद्यते, न खलु श्रुतकेवलिनोऽपि महात्मानो गुरुतरदोषानुपलम्भे पारमेश्वरप्रतिमानामवन्द्यत्वमेवमेवाभिदधतीत्यलमतिप्रसंगेन । तद्विशेषविचारस्तु कल्पनिशीथादिभ्यो विस्तरतोऽवसेयः । सर्वत्र चात्रासदाचारदर्शनादिध्वंस हेतुत्वेनानायतनत्वं स्पष्टमेवेति । अत्र च सूत्रे भावायतनानायतनग्रहणं तयोर्द्रागेव विशिष्टगुणदोषहेतुत्वख्यापनार्थ, नेतरप्रतिषेधार्थं, भावायतनादिवदितरेषामपि क्रमेण गुणदोषातिशयोत्पादकत्वस्य साम्यात् । तथा च सुश्रावकेण ज्ञानादिवृद्धिमभिवाऽछताऽनायतनसंसर्गः सर्वथा परिहर्तव्यः । तदुक्तम् – “ एवमिहमणाययणं, सुड्डु वि धम्मट्टियस्स सङ्घस्स || होइ गुणहाणिहेऊ, ता एवं वाणिञ्जन्ति ॥ १ ॥ "
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
14*69++******+****

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115