Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदस्थानक प्रकरणम्
प्रथम स्थानम्
॥७॥
व्याख्या-यदीत्यभ्युपगमे । 'यदि' चेत् 'सोऽपि' देवत्वामिमतोऽपि, पास्तामन्यः, किम् ? इत्याह-'समानगुणः' विषयाद्यासेवनेन तुन्यधर्मा 'लोकेन' रागादिमता सामान्यजनेन तदेति शेषः। 'तस्य' सामान्यजनस्य 'तारकः' प्रणामादिना संसारसिन्धुपारप्रदः 'कथं नु' इत्यनुस्वारलोपः प्राकृतत्वात्, केन प्रकारेण ?, नुर्नन्वर्थे अक्षमायाम् । ततश्च न क्षम्यत एतत्-यदुतासावपि तारक इति । ननु कः सचेतनः सरागस्य देवत्वमभ्युपेयात् ? वीतरागस्यैव सर्वकर्तुरनादिसिद्धस्येश्वरादेर्देवत्वेनाभ्युपगमात् , ततः किमनेनानभ्युपगतोपालम्भेन ? इति चेत्, सत्यमेतत् , किन्तु तस्य सदा स्त्रीसंसर्गित्वेन वीतरागताया एव चिन्त्यत्वात् । तथा चोक्तं वाक्पतिराजेन--"देद्धद्धपरिट्ठिय-गोरिहराराहणिकहिययं व । खंडत्तणेण पणमह, परिट्ठियं तिनयणमयंकं ॥१॥" तथा-"गणवइणो सइ संगय-गोरीहरपिम्मरागविलियस्स । दन्तो वाममुहद्धंत,-जिओ जयइ हासु च ॥ २॥" न च सर्वमेतदर्वाचीनावस्थस्यैवेति वाच्यम् । अनादिसिद्धत्वरूपपरावस्थायाः सर्वकर्तृत्वस्य च प्रमाणविरोधात् । एवं विष्णुप्रभृतिष्वपि वाच्यम् । रागद्वेषाभाववतो रागद्वेषमोहाभाववतश्च देवत्वोपसंहारस्य वक्ष्यमाणत्वेऽपि यदत्र केवलरागाभाववतो देवत्वोपसंहरणं तद्दोषलेशसद्भावस्यापि सर्वथा देवत्वस्याभावख्यापनार्थमित्यवगन्तव्यम् । यतः समानगुणस्य तारकत्वं नोपपद्यते, तस्मात्कारणात् 'रागविमुक्तः' नीराग एव 'देवः' भाराध्यतमः 'प्रतिपत्तव्यः' भङ्गीकार्यों मुक्यर्थिभिराराध्यत्वेन । इतिशद्रो रागानुगतवक्तव्यतासमात्यर्थः । इति गाथार्थः ॥८॥
१ देहार्धापरिष्ठितगौरीहराराधनकहृदयमिव । खण्डत्वेन प्रणमत, प्रतिष्ठितं त्रिनयनमृगाङ्कम् ॥ २ गणपतेः सदा संगतगौरीहरप्रेमरागत्रीडितस्य । दन्तो वाममुखार्धान्त पुंजितो जयति हास इव ॥
For Private and Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115