Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra •-***←--``_19**•→→**«« ******* ***** www.kobatirth.org अधुना द्वेषस्यापि फलं चेष्टितं चाभिधित्सुस्तल्लक्षणे प्राह दोसो विमच्छरित्तं, परगुणउवघायकारिया बुद्धी । परउवघायपरो वा, अज्झवसाउ ति दोसो उ ९ व्याख्या-‘द्वेषोऽपि ' अमर्षोऽपि 'मत्सरित्वं ' परगुणासहिष्णुत्वम्, तदेव किम् ? इत्याह-' परगुणोपघातकारिता बुद्धि: ' ' कथं मयाऽन्यगुणा हन्तव्या ? ' इति परगुणोपघातकारितायां परगुणोपघातकारिका वा सामान्येन मतिः । गाथान्तर्वती द्वेषशद्ध एवं योज्यः, ' परोपघातपरो वा' अन्यजनव्यापादननिष्ठो वा 'अध्यवसायः ' परिणामविशेषो द्वेषः, इति गाथान्ते संभन्त्स्यते । पुनद्वेषपदोपादानं तु लक्षणान्तरसंबद्धतया न दुष्टमिति । पूर्वत्र हि गुणेष्वेव, अत्र तु गुणिन्यपि घातबुद्धिः । तथा पूर्वत्र सामान्येन, अत्र तु शत्रुप्रभृतिविशेषनिष्ठतयेति विशेषः । ' इति ' द्वेषलक्षणपरिसमाप्त्यर्थः । ' तुः ' पूरणार्थः । यद्वा सर्वेऽप्येते द्वेषस्यैव पर्यायाः, अतश्चैवंविधद्वेषवान् कथं देवः ? इत्यभिप्रायः । इति गाथार्थः ॥ ९ ॥ सांप्रतं द्वेषफलस्याप्यत्यन्तं वचनागोचरत्वमाह - दोसेणं जमणत्थं, जीवो पावेइ गरहणाईयं । को तं वन्नेउमलं, जीवन्तो वासकोर्डि पि ॥ १० ॥ व्याख्या- ' द्वेषेण' अमर्षेय हेतुभूतेन 'यं' कमपि 'अनर्थ ' व्यसनं 'जीवः' प्राणी 'प्राप्नोति' लभते । जात्यपेक्षयैकवचनम् |' गर्हणादिकम् ' गर्हणं तत्समचं निन्दनम्, आदिशद्वात् खिसादिपरिग्रहः । दीर्घत्वं प्राकृतत्वात् । इहभवे वाचनिकाशुभ फलप्राप्तिस्तावदेवम्, कायिकीं तु सूत्रकार एव दर्शयिष्यते । परभवे तु क्रकचपाटनकुम्भीपाकादिकं महाघोरं फलमिति For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *****19-3**++++

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115