________________
Shri Mahavir Jain Aradhana Kendra
•-***←--``_19**•→→**«« ******* *****
www.kobatirth.org
अधुना द्वेषस्यापि फलं चेष्टितं चाभिधित्सुस्तल्लक्षणे प्राह
दोसो विमच्छरित्तं, परगुणउवघायकारिया बुद्धी । परउवघायपरो वा, अज्झवसाउ ति दोसो उ ९ व्याख्या-‘द्वेषोऽपि ' अमर्षोऽपि 'मत्सरित्वं ' परगुणासहिष्णुत्वम्, तदेव किम् ? इत्याह-' परगुणोपघातकारिता बुद्धि: ' ' कथं मयाऽन्यगुणा हन्तव्या ? ' इति परगुणोपघातकारितायां परगुणोपघातकारिका वा सामान्येन मतिः । गाथान्तर्वती द्वेषशद्ध एवं योज्यः, ' परोपघातपरो वा' अन्यजनव्यापादननिष्ठो वा 'अध्यवसायः ' परिणामविशेषो द्वेषः, इति गाथान्ते संभन्त्स्यते । पुनद्वेषपदोपादानं तु लक्षणान्तरसंबद्धतया न दुष्टमिति । पूर्वत्र हि गुणेष्वेव, अत्र तु गुणिन्यपि घातबुद्धिः । तथा पूर्वत्र सामान्येन, अत्र तु शत्रुप्रभृतिविशेषनिष्ठतयेति विशेषः । ' इति ' द्वेषलक्षणपरिसमाप्त्यर्थः । ' तुः ' पूरणार्थः । यद्वा सर्वेऽप्येते द्वेषस्यैव पर्यायाः, अतश्चैवंविधद्वेषवान् कथं देवः ? इत्यभिप्रायः । इति गाथार्थः ॥ ९ ॥
सांप्रतं द्वेषफलस्याप्यत्यन्तं वचनागोचरत्वमाह -
दोसेणं जमणत्थं, जीवो पावेइ गरहणाईयं । को तं वन्नेउमलं, जीवन्तो वासकोर्डि पि ॥ १० ॥
व्याख्या- ' द्वेषेण' अमर्षेय हेतुभूतेन 'यं' कमपि 'अनर्थ ' व्यसनं 'जीवः' प्राणी 'प्राप्नोति' लभते । जात्यपेक्षयैकवचनम् |' गर्हणादिकम् ' गर्हणं तत्समचं निन्दनम्, आदिशद्वात् खिसादिपरिग्रहः । दीर्घत्वं प्राकृतत्वात् । इहभवे वाचनिकाशुभ फलप्राप्तिस्तावदेवम्, कायिकीं तु सूत्रकार एव दर्शयिष्यते । परभवे तु क्रकचपाटनकुम्भीपाकादिकं महाघोरं फलमिति
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
*****19-3**++++