________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदस्थानक प्रकरणम्
प्रथम स्थान
॥८
॥
आदिशद्वार्थः । 'कः' पुरुषविशेषः 'तं' अनर्थ द्वेषसंपाचं वर्णयितुं' उत्कीर्तयितुं 'अलं' समर्थः १, न कश्चिदित्यर्थः । | कीदृक् ? इत्याह--' जीवन् ' प्राणान् धारयन् — वर्षकोटिमपि ' वत्सरलक्षशतमपि, भास्तां वर्षशताद्यायुरित्यपिशद्वार्थः, अनन्तत्वात्तदनर्थस्य । इति गाथार्थः ॥ १० ॥
अथ तच्चेष्टितमाहपिइमाइभइणिभज्ज, दोसेणं हणइ पुत्तमवि निद्धं । परलोयाणमकंडे, कुविओ तं नस्थि जं न करे ११ __ व्याख्या-पित्रादयः प्रसिद्धाः। पितृमातृभगिनीभार्यमिति समाहारद्वन्द्वः। एतत्सर्व पुत्रपर्यन्तं 'द्वेषेण' अमर्षेण हेतुभूतेन 'हन्ति ' विनाशयति । अपिभिन्नक्रमः, तेन स्निग्धमपि, भास्तामुदासीनं द्विष्टं चेत्यपिशद्वार्थः । पुत्रस्य पृथग्निर्देशो गृहकुटुम्बाद्याधारत्वेनातिस्निग्धत्वख्यापनार्थः । एतच्च कोणिकराजपरशुरामाधुदाहरणैः सर्व सुप्रसिद्धमेव । एवं 'परलोकानां' आत्मव्यतिरिक्तानां पित्रादीनामेव । अथवा पित्रादिम्यः स्वजनेभ्योऽन्येषां प्रातिवेश्मिकादीनां लोकानां 'अकाण्डे 'अपराधामावेनाप्रस्ताव एव 'कुपित: ' रुष्टः सन् 'तत् ' अकृत्यं नास्ति' न विद्यत एवं जगति 'यत्' असौ द्वेषवान् ‘न करोति,' स्वपरलोकेषु वधाक्रोशमारणपर्यतानन्तानर्थसार्थसंपादकत्वात्तस्य । इति गाथार्थः ॥ ११ ॥
अथैहभविकं कायिक, तस्यानर्थफलमाह| पच्छा लोएणं सो, उब्बज्झइ हम्मई य सूलाए । पोइजइ तिक्खाए, छिज्जइ असिघायमाईहिं १२
॥८
॥
For Private and Personal Use Only