________________
Shri Mahavir Jain Aradhana Kendra
***97**********+++++
www.kobatirth.org
व्याख्या- ' पश्चात् ' इति स्वजनादिवधानन्तरं ' लोकेन ' राजादिष्टदण्डपाशिकादिजनेन 'सः' इति स्वजनादिहन्ता 'उद्बध्यते ' कण्ठपाशादिवन्धेन अधोमुखपादादिबन्धेन वा वृचादौ संयम्यते, ' हन्यते च ' मुष्टियष्टिलोष्ठादिभिराभूमिपातं ताब्यते, चः समुच्चये, 'शूलायां' वा 'तीक्ष्णायां' प्रतिनिशिताग्रस्थूणायां 'प्रोयते' मर्मप्रदेशव्यधपूर्वकं स्पूयते, 'विद्यते ' वा शिरवेदादिना द्विधा क्रियते, 'असिघातादिभिः ' खड्गकुन्तप्रहारादिभिः । इति गाथार्थः ॥ १२ ॥
रागद्वेषयोरन्यतरभावेऽप्यन्यतरस्याभावात् क्वचिदीषनिर्दोषता भविष्यतीति शङ्कानिरासाय तयोः कृतकत्वानित्यत्वयोरिवान्योन्याविनाभावमाविर्भावयन्नाह -
रागविसयादभिन्न, दोसो तव्विसयगोयराणन्ने । रागो तम्हा दुन्निवि, अन्नोन्नगया इमे लोए ॥१३॥
व्याख्या-' रागविषयात् ' सदानुकूलत्वेन प्रीत्युत्पत्तिस्थानाद्योषिदादेरिन्द्रियार्थात् ' अभिने ' अभेदवति तस्मिन्नेव विषय इत्यर्थः । कुतोऽपि प्रतिकूलेऽतथाविधेऽपि वा विपर्ययात्तथाविधबुद्धिविषये 'द्वेषः' क्रोधो भवति, यथाऽन्तःपुरदाहादेशे चेल्लनादेव्यां श्रेणिकस्य । तथा तद्विषयगोचरानन्यस्मिन् ' इति तद्विषयो- द्वेषविषयः, स चासौ गोचरश्च - इन्द्रियार्थश्रेति कर्मधारयस्तस्मात् । तेनायमर्थः - अत्यन्तप्रतिकूलत्वेन द्वेषोत्पत्तिस्थानाद्गोचराच्छत्रुप्रभृतेरनन्यस्मिन् तस्मिन्नेव कुतोऽप्यनुकूले तथाविधेऽपि वा विपर्ययात् तथा बुद्धिविषये ' रागः ' प्रीतिर्भवति, यथा पर्युषणायां वन्दिमोक्षादेशे प्रद्योतनरपतावृदायननृपस्य । यत एवमेकविषयत्वमनयोः 'तस्मात् ' ततो हेतोः द्वावपि 'अन्योन्यानुगतौ ' एकविषयत्वेन परस्परानुषक्तौ
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
+++***900******93-84