________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथम
पदस्थानक प्रकरणम्
स्थानम्
॥९॥
'इमौ' एतौ रागद्वेषौ । यथा चैवं तथा प्रदीपे प्रकाशोष्णस्पर्शाविकाधारावपि, नान्यथा प्रकृतशङ्कानिरासः । ननु सूक्ष्मसंपरायगुणस्थानवतः सूक्ष्मलोभलक्षणरागसद्भावेऽपि द्वेषाभावात् कथमेकाधारता? इत्यत माह-'लोके' स्थूलकषायवाति सामान्यजने । ततः कथं लोकोत्तरगुणस्थानवर्तिना तेन व्यभिचारः । एवं च कथमेकभावेऽन्याभावादीषदपि निर्दोषता पाखण्डिमण्डलाभिमतदेवानाम् ? कार्याभिव्यङ्गयस्थूलतरकषायकलङ्कितत्वात्तेषाम् । इति गाथार्थः ॥ १३ ॥
एवमनयोस्तुन्यविषयाधारतया साम्यं समर्थ्य तुल्यफलत्वमुपदर्शयंस्तद्वतो देवत्वाभावमाह| इह लोए निंदखिसं, लहंति परलोए नरयदुक्खाई। रागद्दोसेहितो, तेसु ठिओ कह णु देवो त्ति ॥१४॥ ___व्याख्या-'इह लोके' भत्र जन्मनि 'निंदाखिसं' इति तत्समक्षं गर्हणं निन्दा, लोकसमक्षं तु जात्यायुद्धट्टन खिसा, ततः समाहारः । 'लभन्ते' प्राप्नुवन्ति, 'परलोके' जन्मान्तरे 'नरकदुःखानि' दुर्गतियातनाः, 'रागद्वेषाभ्यां' हेतुभूताभ्यां तद्वन्तः प्राणिन इत्यर्थः । अथैतदुभयदोषवतो देवत्वाभावमुपसंहरबाह-यत एवं ततः 'तयोः' रागद्वेषयोः 'स्थितः' वर्तमानः कथं नु देव इति पूर्ववत् । रागाद्याध्मातमानसत्वादसर्वज्ञत्वादव्यभिचारिशास्त्राप्रणेतृत्वात्तस्य नैव देवत्वम् । इति गाथार्थः ॥१४॥
अथ मोहस्य स्वरूपफले दर्शयन् रागद्वेषयोरपि तन्मूलत्वमाहमोहो पुण अन्नाणं, सयलाणत्थाण कारणं तं तु।रागद्दोसावि फुडं, तप्पभवा निच्छओ एस ॥१५॥
For Private and Personal Use Only