________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-'मोहः' असम्यक्प्रतिपत्तिः, पुनःशब्दो रागद्वेषाभ्यामस्य विशेषणार्थः । 'अज्ञानम् ' इति न कुत्सायां, तेन मिथ्याज्ञानमित्यर्थः। 'सकलानर्थानां' ऐहभविकादिसमस्तव्यसनानां पूर्वोपदर्शितानां 'कारणं' हेतुः 'तत्' इति अज्ञानमेव । 'तुः' अवधारणे । तदुक्तम्-" अज्ञानं खलु कष्टं, क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थ हितमहितं वा, न वेत्ति येनावृतो लोकः॥१॥" ननु रागद्वेषयोरेव सर्वानर्थसंपनिष्पादकता निःसीमास्ति, तत्किमस्य ताभ्यां सकाशादाधिक्यम् । अत आह-'रागद्वेषावपि' भास्तामनर्थसार्थस्तत्संपादकावपि रागद्वेषावित्यपिशब्दार्थः। 'स्फुटं' व्यक्तमिति प्रभवनक्रियाविशेषणम् । 'तत्प्रभवो' मोहोद्भूतौ 'निश्चयः' निर्णय एषः, नात्र संशयः। मोहस्य मूलप्रकृतित्वेन रागद्वेषयोलोंभक्रोधपर्यायविशेषतया तदुत्तरकार्यपरिणामरूपत्वात्तत्कार्य तत्त्वतो मोहकार्यमेव, विषाजीर्णव्यापादनवत् । इति गाथार्थः॥१५॥
अथ मोहस्य चेष्टितं स्पष्टयंस्तस्यानर्थहेतुत्वक्रममाह - अन्नाणंधा जीवा, पाणिवहाईसु जं पयहति। तत्थ य असुहं कम्म, तत्तो नरयम्मि दुक्खाइं ॥१६॥
व्याख्या-'अज्ञानान्धाः' मिथ्यादर्शनोपहतसदृष्टयः 'जीवाः' प्राणिनः 'प्राणिवधादिषु' स्थूलजीवहिंसादिषु, अनेन तन्मूलद्वेषकार्य प्रतिपादितम् , आदिशद्वात् तन्मूलरागकार्य मद्यमांसाङ्गनासङ्गादिपरिग्रहस्तेषु । 'यत्' यस्मात् 'प्रवर्तन्ते' उद्यच्छन्ति । तत्र च' तत्प्रवर्तने च सति 'अशुभं' कटुकविपाकतया संवेद्यमसातादिलक्षणमशोभनं 'कर्म' ज्ञानावरणीयाघष्टप्रकारमपि बघ्नन्तीति शेषः । ततः' तस्मात् बद्धात् कर्मणः सकाशात् 'नरके' इति दुर्गतिमात्रोपलवणं, तेन तिर्यग्
For Private and Personal Use Only