________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदस्थानक प्रकरणम्
प्रथम स्थानम्
॥१०॥
मानुषत्वादिगतौ सर्वत्रापि 'दुःखानि ' दुःसहतराणि कष्टानि प्राप्नुवन्तीत्यध्याहारः । तदेवं रागादित्रयवतो देवस्यापि भवभ्रमणमेव, न तु लोकनिस्तारकत्वं, स्वयमेवास्वस्थत्वात् । इति गाथार्थः ॥ १६ ॥
ननु मोहवतो रागद्वेषाववश्यम्भाविनाविति तावनिश्चितम् , तद्धेतुकत्वात्तयोः । मोहवस्वमेव तु कुतस्तस्य निश्चयम् ? इति सदृष्टान्तं तल्लिङ्गमाहसो नजइ अन्नाणी, जीवे मारेइ धम्मलोभेण । सागरहुत्तो गच्छइ, भणइ य वच्चामि हिमवंते ॥१७॥
व्याख्या-'स' पुरुषः 'चायते' लिङ्गतोऽवगम्यते 'अज्ञानी' इति विपर्यस्तज्ञानवान् । तच्छदस्य यच्छढेन नित्यसंबन्धात् य इति गम्यते । लिङ्गमाह-यः 'जीवान्' स्थूलपाणिनोऽपि च्छागादीन् 'मारयति' वधानुमतिभ्यां यजमाना.
दिना व्यापादयति 'धर्मलोभेन' स्वर्गादिसाधनश्रेयोऽभिलाषण, 'एषां तावदित्थं प्रवर्तमानानां धर्म एव, ममाप्येवमुपदिशत * एव धर्मः' इत्यभिप्रायवानित्यर्थः । “तरति मृत्युं तरति ब्रह्महत्यां योऽश्वमेधेन यजेत, राजव्येन यजेत, अनीपोमीयं पशुमा
लभेत, स्वर्गकामो यजेत" इत्यादिभिर्विधिवाक्यैः स्वर्गार्थिनस्तत्र प्रवर्तयन् मारयतीत्यर्थः । धर्मलोभेनेत्युपलक्षणम् , तेन लोकरचादिकारणेन, स्वयमेव वा मारयति जीवानन्धकहिरण्यकशिपुप्रभृतीनसुरान् । ततो जीववधतदुपदेशलिलोपलम्भादनुमीयते 'नूनमसावज्ञानी' इति, न ह्यविपर्यस्तमतिः प्राणिरक्षासाध्यं धर्म तद्वधेनोपदर्शयेदिति भावः । अत्रैवानुरूपं दृष्टान्तमाह- सागरहुत्तो ' समुद्राभिमुखं दक्षिणादिशीत्यर्थः, 'गच्छति' याति कश्चिदज्ञः । स चान्येन पृष्टः सन् ‘भणति
।
।
.
.
For Private and Personal Use Only