Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथम
पदस्थानक प्रकरणम्
स्थानम्
अतीचारा ह्यशुद्धिहेतवस्तदभावाच्छुद्धमिति भावः । अतीचाराश्च सम्यक्त्वे शङ्कादयो व्रतेषु बन्धादयः पञ्च पश्च सद्गरुवक्त्राम्बुजादवधार्य परिहार्याः । ' यथाशक्ति' इति स्वसामर्थ्यानुरूपं, न तु यतिवत् त्रिविधं त्रिविधेनेति, शक्तिश्च चारित्रावारकवीयन्तिरायादिकर्मक्षयोपशमवैचित्र्याद्विचित्रा । तत एव च करणकारणाम्यां मनोवाकायैश्च श्रावकाणां विरतेरपि वैचित्र्योपपत्तिः । तदुक्तम्-" दुविह तिविहेण पढमो, दुविहं दुविहेण बीयो होइ । दुविहं एगविहेणं, एगविहं चेव तिविहेणं ॥१॥ एगविहं दुविहेणं, एगेगविहेगं छठ्ठो होह त्ति ।" एवं तावत्प्रथमे व्रते षट् भङ्गाः । एवं शेषेष्वप्येकादशसु षभेदभावे द्वितीयादिवतभेदैश्च पद्भिरपि प्रत्येकं योजने द्विकादिसंयोगैश्च परिगणने " तेरस कोडिसयाई, चुलसीइ जुयाई बारस. य लक्खा । सत्तासीइ सहस्सा, दुन्नि सया चेव सड्डाणं ॥ १॥" इति। श्राद्धबाहुन्यं तद्विरतिबाहुल्यात् , तच्च शक्तिवैचित्र्यादिति यथाशक्तीत्युक्तम् । केवलं चारित्राकासिणा विशिष्टोत्तरोत्तरदेशविरतौ यत्नवता भाव्यम् , तथैव तत्परिकर्मत्वोपपत्तेः । अपरिकर्मितात्मनो हि योधवन दुर्धरपरपराजयोत्साहकल्पश्चारित्राभ्युपगमसामतिशयः स्यात् । ' इति' एवमुक्तप्रकारेण · चतुर्भेदं' श्रवणज्ञानेच्छापरिपालनलक्षणं चतुष्प्रकारं 'भणितं' प्रतिपादितमिति प्रकरणकार माह'प्रथम' आद्यं व्रतपरिकर्मसंज्ञक ' स्थान ' श्रावकाचारविशेषलक्षणं 'गृहस्थानां' सम्यग्दर्शनदेशविरतिभाजामगारिणां श्रावकाणाम् । इति गाथार्थः ॥ २६ ॥ | यत्संसारमहापयोनिधितटप्रस्थास्नुभिः प्राप्यते, यच्चासेवितमादरेण दलयत्याशु व्रतेन्द्रावृतिम् ।
॥१६
For Private and Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115