________________
Shri Mahavir Jain Aradhana Kendra
पा. २. ]
www.kobatirth.org
सर्वथानुपपत्त्यधिकरणम्
अथोपलम्ध्यधिकरणम् ॥ ४ ॥
न ग्राह्मग्राहकौ स्तः कचिदपि विविधानादिसन्तानचित्रो त्मा नचात्मकोऽद्य स्फुरति भवदशातिक्रमे स्वात्मनैव । योगाचारोक्तिरित्थं विषयविषयिणोर्बोधबाधौ समानौ मन्वानैर्वारणीया स्वपरविभजनाद्यत्र न कापि सिद्ध्येत् ॥ २१ बुज्यैक्यं बोध्यबोद्धोर्न घटत इह ते सत्ययोरन्ययोर्वा भिन्नत्वे ग्राह्यलक्ष्मक्षतिमभिमनुषे नात्र चित्रैक्यमर्थ्यम् । चित्रद्रव्यं गुणं वा किमपि न च विदुः केऽपि भिन्नैकरूपं तेनात्मख्यातिवादे स्थितिमिह भजतु स्वप्रकाशत्वमाले ॥ २२ अथ सर्वथानुपपत्त्यधिकरणम् ॥ ५ ॥ ) - सवेसवे ये च द्वितयपरिहृतावप्यनिष्टप्रसङ्गैसर्वे शून्यश्चतुष्कोटयतिगतमिति नामानतस्स्वेष्टवादात् । अक्षोभ्यन्तत् प्रहाणे परमतमसती संवृतिर्नार्थसिद्ध्यै तस्मादित्थं निषेधो निरुपधिक इह काप्यदृष्टो न कल्प्यः ॥ २३ प्राक्पश्चात् सत्त्वहानेर्गगनकुसुमवत् स्यान्न मयेऽपि कार्यमैवन्तत्रैव दृष्टेर्न यदि कथमसौ मध्यकार्यादिशब्दः । कार्यारम्भे निदानं विकृतिमदुत नेत्यादिचिन्तापि बन्ध्या सामग्रया कार्यसिद्धेर्भजति च गुणतां कारणस्यानवस्था ॥ २४ साध्यं हेतुस्तदङ्गप्रभृति च यदि वस्संवृतेरेव सिध्येदस्मद्वाक्यानुरोधादिह न कथमसिद्ध्यादिदोषा भवेयुः । तन मामाण्यबुद्धिर्न यदि पठत तन्मानमित्यस्मदुक्तिं वस्तुस्थित्या न मानन्तदिति यदि समं त्वन्मतस्थापकेऽपि ॥ २७ अख्यातिस्त्वन्यथाधीर्विषयरहितधीस्सानधिष्ठानबुद्धिबह्मार्थाकारयोगस्सदसदितरधीश्शून्यधीरात्मधीश्च ।
१. कारणस्थानवस्था. पा ॥
*64
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
४१