Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
अधिकरणसारावल्याम् [अ. ४. सन्दिग्धे वाक्यशेषाद्गतिरिति जगुरग्न्यादिवाचाभिमन्तन् ॥ ७ यां श्रुत्वा धर्मसूनुयंपतदभिपतेत्तामसौ तामसौधो वर्गस्त्रैवर्गिकाणां पितृसरणिघटीयन्त्रचक्रे विवूर्णेत् । वर्तन्येषार्चिरादिश्श्रुतिभिरपुनरावर्तिनां संविभक्ता तत्र ब्रूतेऽतिवोस्तदितठवदहःपक्षमासादिशब्दः ॥ पूर्व धूमादिमार्गे सुकृतिषु कथिता चन्द्रमामाप्तिरन्या सायुज्यं न्यासविद्याप्रकरणपठितं चान्द्रमन्यादृगुक्तम् । अनान्यार्मुिखानामतिवहनकृतावष्टमस्याप्तिरिन्दोरित्थं सुस्था व्यवस्था प्रणिहितहृदयैरेवमन्यच्च मूहम् ॥ ९ भूलोकेशाग्निपूर्वान् कतिचन भविनः केपि मन्यन्त एतान्छब्दैक्येऽप्यत्र गुर्वी भवति तदभिमन्वन्तराणां प्रकृप्तिः । अन्ये चामानवस्य स्वपदगतपरब्रह्मनेतृत्वदृष्टया नित्यत्वं तद्वदन्यानिजगदुरखिलानित्यवैकुण्ठभृत्यान् ॥ १०
----अथ कार्याधिकरणम् ॥ ५॥-- वैधात्रस्थाननेतन् समकथयदिमान् बादरिस्तादृशानां गत्यौचित्यं तदा स्यान्नखल विभुजुषामत्र वेद्यं न लभ्यम् । सामीप्याब्रह्म चोक्तस्सरसिजवसतिस्तेन सार्द्ध च मुक्तियुक्तेत्येतन्न नानाश्रुतिपठितपरस्थानगत्याद्यबाधात् ॥ मार्गोऽसावर्चिरादिर्गमयति परमं धाम गत्यादियोगाब्रह्मोक्तेर्मुख्यभावादिति तु निरणयजैमिनिस्सत्यमेतत् । वक्तव्यं त्वत्र किंचिन्नयतिपरविदिस्स्वान्वितब्रह्मनिष्ठांस्तदेहस्वात्मनिष्ठानपि मुखभिदयामी च संपूर्णनिष्ठाः॥ १२ ध्यायेयुर्ये च जीवान् प्रकृतिशबलितान् केवलान्वा यथेष्टं द्वेधापि ब्रह्मदृष्टया जडनिवहमपि खेन यद्वान्यदृष्टया । ते सर्वेऽपि प्रतीकमणिहितमनसो नाचिराद्यध्वयोग्या
For Private And Personal Use Only

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595