Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१०६
www.kobatirth.org
अधिकरणसारावल्याम्
Acharya Shri Kailassagarsuri Gyanmandir
जैनावष्टम्भदृप्यन्मतिकलहमुचस्सत्पथं संश्रयन्तु ॥ सर्वे संकल्पमात्राल्लभत इति समाम्नायते सूत्रितं च स्वेच्छातो देहयोगाद्यनियतिकथनं स्यात्ततः पिष्टपेषः । तन्नान्योन्योपरुद्धश्रुतिगतिनियतिः कामतोऽनेकदेहस्वीकारप्रक्रियेत्याद्यनियतिकथने सूत्रकाराभिसन्धेः ॥ अथ जगद्व्यापारवजधिकरणम् || ६ ||
For Private And Personal Use Only
[ar. 8.
२३
२४
यद्यप्युक्तो विमुक्तः परतनुरपृथक्सद्ध इत्यत्र पूर्व व्यापारांशे तथापि श्रुतमिह परमं साम्यमक्षोभणीयम् । संकल्पादेव सर्वोत्थितिरिति हि ततस्स्यादिति प्रत्यवस्थां कृन्तत्यन्त्येऽधिकारे कृतिमदितरयोस्स्थापयन् भोगसाम्यम् ||२५ सायुज्यं भोगसाम्यं समगणि निपुणैश्शब्दशक्त्याद्यबाधातच्च व्यापारसाम्ये त्वसति न घटते स्वक्रियास्वादहानेः । तस्मान्मुक्तस्य सृष्टिप्रभृतिरपि जगद्वयापृतिर्ब्रह्मतुल्या मैवं तल्लक्षणं सा कथमनुगमतस्तस्य चान्यस्य च स्यात् ॥ २६ कथ्यन्ते सृष्टिवाक्यैः क्वचिदपि न जगत्कारणत्वेन मुक्ताः प्राधीतः कामचारो भवतु न जगदारम्भकत्वं ततस्स्यात् । सर्वाकारोपभोग्येश्वरविषयधियः साम्यतो भोगसाम्यं युज्येतानन्दवल्ल्यामगणि च विभुनानन्दमात्रे समत्वम् ॥ २७ निष्काम श्रोत्रियस्याप्यतिदिशति सुखं मानुषानन्दतुल्यं साऽऽनन्दान्वक्तुकामा शतगुणमधिकानाविरिञ्चं क्रमेण । तत्तद्भोगाच्चदिष्टं कथमिदमवरं कष्टमिष्टं हि मुक्ते सत्यं तत् स्यान्मुकुन्दप्रियजनसदृशे ह्येकदेशानुवादः ॥ आनन्दानन्त्यमाह श्रुतिरिह हि यतो वाच इत्यादिका स्याद्विश्रान्ति: श्रान्तिमात्रादिति च निगदितं यामुनाचार्यवर्यैः ।
२८

Page Navigation
1 ... 589 590 591 592 593 594 595