Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१०४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारावल्याम्
पर्यायौ नामपाठेष्वनुपरिपठितौ मुक्ति कैवल्यशब्दौ कैवल्यं चान्ययोगत्यजनमिति कथं धर्मिधर्मान्वयोऽस्य । मैवं ब्रह्मस्वरूपादपरमिह न खल्वस्ति किंचित् स्वनिष्ठं न द्रव्यं चागुणं स्यादधिकरणयुगं तन्निरातङ्कमेतत् || १२ अथ सङ्कल्पाधिकरणम् ॥ ४ ॥ )
[or..
For Private And Personal Use Only
धात्रादेरप्यपेक्ष्यो ह्युपकरणगणस्सत्य संकल्पवृत्तेमुक्तस्याप्येवमेवास्त्विति यदि वितथं तद्विकल्पासहत्वात् । इष्टा द्रव्याद्यपेक्षा सुकृततदितरापेक्षणं तत्र दुस्स्थं न स्यादिच्छाविघातस्त्वनुपधिकतया देववान्छेकरस्यात् ।। १३ विश्वस्यैतस्य जन्मस्थितिलयरचना विश्वकर्तुर्यथा स्यादिच्छासन्वा नभेदान्नियतिरिह तथा नित्यमुक्तक्रियाणाम् । तस्यानुच्छेदवृच्या प्रतिकलभिदुरास्ताश्च तादृक्प्रवाहास्तद्बुद्धेरापरोक्ष्यं त्वनिशमभिदुरं वर्तते ब्रह्मधीवत् ॥ १४ प्रत्यूहार्हाः प्रदेशप्रभृतिसुकृतिनस्सत्यसंकल्पभावे मर्त्यारम्भस्पृहादौ तदितरविविधप्राणिसृष्ट्यादिदृष्टेः । तेनेच्छासन्ततीनां सफलविफलते पुण्यपापैरमीषां मुक्तस्योक्ता चिकीर्षा त्वविहतविषया तारतम्यं त्वदोषः ॥ १५ सूत्रे मुक्तोप्यनन्याधिपतिरभिहितस्तेन कस्तस्य शेषी श्रुत्यैवोक्तस्स्वराडित्यपि विहतिरतः प्राक्प्रतिष्ठापितानाम् । मै नाथेतरान्प्रत्यविहित इह क्षिप्यते शेषभावो विश्वस्यात्मेश्वरो यः पतिरिति पठितस्तत्पतित्वं त्वाख्यम् ।। १६ 'अथाभावाधिकरणम् ॥ ५ ॥ ) --
मुक्तः प्रोक्तोऽशरीरः क्वचिदथ बहुधा संभवः क्वाप्यधीतो गानक्रीडादि चोक्तन्तदनुगुणमतद्वन्द्वमार्ष निरस्यन् । स्वच्छन्दस्योभयन्तत् क्षममिति वदति स्वम्मतं सूत्रकार

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595