Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 592
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.] जगद्यापारवर्जाधिकरणम् . नह्यानन्दो मितस्स्याद्विधिशतवचनेऽप्यस्य यष्टया नभोवचोक्तं भूभृदण्वोरुदधिपतितयोर्मजने को विशेषः॥ २९ विश्वम्मुक्तस्य देहो न खलु तदपृथक्सिद्ध्यभावोपलम्भानोपादानं ततोऽसौ कथयितुमुचितस्सर्वशक्तित्वहानेः । नात्माशक्यं चिकीर्षत्तदितरविषये निर्विघाता तदिच्छा व्यापारे भिद्यमानेऽप्यविषमरसता दृश्यते कापि लोके ॥ ३० तत्तत्सेवाविशेषस्थिरपरिणमितस्सार्वभौमप्रसादस्मृते भृत्यस्य साम्यं स्वयमनभिमतस्वामिचिरैकवर्जम् । एवं देवं दयालु शरणमुपगतैर्लभ्यतेऽनन्यलभ्या निर्द्धतात्तिशङ्का निरुपधिकरसा सव्यवस्था त्ववस्था ॥ ३१ अत्राहुस्सूत्रमन्त्यं पृथगधिकरणं केचिदाञ्जस्यलाभादस्त्यावर्ते निषेध्ये विममिति च पदं तेन शङ्कोत्थितेति । भाष्यादौ तन्न दृष्टं भवति च सुगमं पूर्वशेषत्वमस्य स्यादात्तिप्रसङ्गादपि निखिलजगनिर्मिती साम्यशङ्का ॥ ३२ सांधावर्तलीलारससहचरिते दण्डरासे नियुक्तं जीवं देवो विमुच्य क्रमत इह सयुग्भावधन्यं भुनक्ति । कर्मात्यन्तोपशान्तरिह न च पुनरावर्तयत्येनमित्यप्याम्नाते कर्ममूलाक्षयफलकथनाद्युत्थशङ्कोपशान्तिः ॥ ३३ स्वाविर्भावोऽपवर्गे निरुपधिनियतस्वप्रकार्यन्तदृष्टिश्चिद्रूपस्यैव तद्वच्छ्रुतिमकुटमितैः स्वप्रकारैस्सहेक्षा । सङ्कल्पादेव सिद्धिस्तनुषु च नियमोन्मुक्तता ब्रह्मसाम्यप्राप्तौ तल्लक्षणांशोज्झनमिति चरमाध्यायतुर्याघिसारः॥ ३४ ध्यानादिं तत्मभावं करणभृत इतो देहकाराकुटीरानिष्क्रान्ति ब्रह्मनाड्या गतिमपि सुपथा स्वप्रकाशं च साध्यम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 590 591 592 593 594 595