Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
९८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारावल्याम्
[अ. ४.
विन्देत्सायुज्यमिन्दोरिह भवति पुनस्तच्छ्रुतेस्तत्स्मृतेश्च । मैवं पूर्वोक्तनीतिस्त्विह नहि विहता तस्य सायुज्यमिन्दौ विश्रान्त्यै सूनीत्या जगदुपकृतये भीष्मकालप्रतीक्षा ॥ २३ किञ्च प्रारब्धकर्मप्रतिनियतमिदं जाह्रवीसम्भवस्य स्वेच्छायेनैवमासीत् स च वसुरभवन्नैष साक्षाद्विमुक्तः । तस्माद्विन्देत मुक्ति नरपितृदिविषद्रात्रिकालेऽपि योगी स्यातां प्राशस्त्यनिन्दे तदितरविषये गीतयोक्तौ तु मार्गों ॥ २४ सम्पद्येतान्यदक्षं मनसि तदपि तत्संयुतं प्राणवाय सोऽध्यक्षे तैस्समेतस्स च तदखिलवान् भूतवर्गे तु सूक्ष्मे | उत्क्रान्तिस्स्यात् समाना युतिरथ च परे सा च संश्लेषमात्रं निर्गच्छेद्रनाड्या घृणिभिरथ निशादेवराज्योश्व मोक्षी ॥२५ इति श्रीकवितार्किक सिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां चतुर्थस्याध्यायस्य द्वितीयः पादः || २ ||
* ( अथ चतुर्थस्याध्यायस्य तृतीयः पादः ।। ) उपोद्यतः ॥
निर्गत्य ब्रह्मरन्ध्रात् तपनकरमथालम्ब्य नाडीनिबद्धं प्रत्युद्यद्देववृन्दमहितवलिरसौ येन योगी प्रयाति । मौकुन्दस्थाप्यतेऽसौ परमिह मुनिना पञ्चभिर्नीतिभेदैमहाकूपारपारं पुरमभिगमयन्मुक्तिघण्टापथी नः || अचिराद्यधिकरणम् ॥ १ ॥
शाखाभेदेषु भिन्नां गतिमुपनिषदोऽधीयते तन्मुमुक्षोविद्यावैषम्यनीत्या सृतिरपि विषमा न व्यवस्थाऽचिरादेः ।
For Private And Personal Use Only

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595