Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 581
________________ Shri Mahavir Jain Aradhana Kendra ९६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् [अ. ४. लिङ्गाख्यं भस्त्रिकान्तः परुवकवदवस्थायि साङ्खचैः प्रगीतं सूक्ष्मांशः पूर्वमूर्तेरुपरितनतनोर्बीजमवेष्यते तत् ।। तत्त्वज्ञानेन बन्धः किल गलति पुरा नोत्क्रमेणेत्यसारमाता वन्ध्येतिवद्धि स्ववचनविहतिर्जीवतो मुक्तिवादे | मुक्तश्चेत्तत्त्ववोधात्तनुभृदिह तदा तत्परं नैष दुःख्येत् मिथ्या दुःखं तदा चेत् कथय तव कदा तस्य सत्यत्वमिष्टम् ॥ ययं भावं स्मरन्तो जहति वपुरिदं देहिनो यान्ति तन्तं तस्मादुत्क्रान्ति साम्यं न यटत इति चेत्तन्न तन्मात्रसाम्यात् । विद्याभेदादिनीत्या भवति विषमता ह्यन्तिमप्रत्ययादौ किञ्चित् साधर्म्यवादे न च नियतिमती सर्वथा साम्यसिद्धिः ॥ ( अथ परसम्पत्त्यधिकरणम् || ६ || ) जीवोत्क्रान्त्युक्तिका विदुषि तु घटते तत्प्रतिक्षेपभक्तो भूतोत्कान्तेस्तु पश्चात्तदुपनिपतने सडतिस्स्यात् कथञ्चित् । तस्मात् साधारणोऽपि ह्ययमुपरि ततस्स्थाप्यते हार्दयोग स्तुल्येऽप्यस्मिन्न तुल्यास्सरणिमुखतया प्राप्यभेदेन नाड्यः ।। १५ प्राप्तुं भोगापवर्गों प्रयति तनुभृति प्राप्तसूक्ष्मस्वदेहे सम्पत्या किं परस्यां श्रितहृदयसुषौ लभ्यते देवतायाम् । आतस्तेजः परस्यामिति चिरघटितेऽप्यस्तु सिद्धानुवादो मैवं मानानुसारात् फलमिति परमे सङ्क्रमश्श्रान्तिशान्त्यै ॥ १६ (अथाविभागाधिकरणम् ॥ ७ ॥ ) - सम्पत्तिर्देवतायां भवतु लय इयं सा हि सर्वस्य योनिर्भूयस्त्रष्टुं क्षमा चेत्यसदनुषजतो वाच्यवैरूप्यदोषात् । विश्लेषो भूतसूक्ष्मैरिह न च घटते सृष्टिकृप्तिस्तु गुर्वीप्रोक्ता धूमादिमार्गे गतिरपि भविनस्तत्परिष्वञ्जनेन ।। For Private And Personal Use Only १२ १७

Loading...

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595